________________
श्रीबहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थ निजतातस्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च तस्यासौ पदेऽधिष्ठातृसञ्ज्ञके। अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवाङमयम् ॥ तस्यैवं प्रेरणां प्राप्य श्रीसिंधीकुलकेतुना । स्वपितृश्रेयसे ह्येषा प्रारब्धा ग्रन्थमालिका ॥ अथैव विगतं तस्य वर्षाणामष्टकं पुनः । ग्रन्थमालाविकासादिप्रवृत्तिषु प्रयस्यतः ॥ "बाण-रत्न-नवेन्द्र 'ब्दे मुंबईनगरीस्थितः । मुंशीति बिरुदख्यातः कन्हैयालालधीसखः ।। प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मितौ । कर्मनिष्ठस्य तस्याभूत् प्रयत्नः सफलोऽचिरात् ॥ विदुषां श्रीमतां योगात् संस्था जाता प्रतिष्ठिता। भारतीय पदोपेत विद्या भवन सज्ञया । आहूतः सहकाराय सुहृदा स मुनिः कृती । ततः प्रभृति तत्रापि सहयोग प्रदत्तवान् । तद्भवनेऽन्यदा तस्य सेवाऽधिका ह्यपेक्षिता । स्वीकृता नम्रभावेन साऽप्याचार्यपदाश्रिता ॥ 'नन्द-निध्य ङ्क-चन्द्राब्दे वैक्रमे विहिता पुनः। एतद्ग्रन्थावलीस्थैर्यकृते तेन नव्ययोजना ॥ परामर्शात् ततस्तस्य श्रीसिंघीकुलभास्वता । भाविद्याभवनाययं ग्रन्थमाला समर्पिता ॥ प्रदत्ता दशसाहस्त्री पुनस्तस्योपदेशतः । स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना ॥ देवादल्पे गते काले सिंघीवों दिवंगतः । यस्तस्य ज्ञानसेवायां साहाय्यमकरोत महत ॥ पितृकार्यप्रगत्यर्थं यत्नशीलस्तदात्मजः । राजेन्द्रसिंहमुख्यश्च सत्कृतं तद्वचस्ततः ॥ पुण्यश्लोकपितुर्नाम्ना ग्रन्थागारकृते पुनः । बन्धुज्येष्ठो गुणश्रेष्ठो ह्यर्द्धलक्षं प्रदत्तवान् । ग्रन्थमालाप्रसिद्धयर्थं पितृवत्तस्य कांक्षितम् । श्रीसिंघीबन्धुभिः सर्व तगिराऽनुविधीयते ॥ विद्वज्जनकृताल्हादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके जिनविजयभारती ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org