________________
।। सिंघीजैन ग्रन्थमाला संस्थापक प्रशस्तिः ॥
अस्ति बङ्गाभिधे देशे सुप्रसिद्धा मनोरमा । मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी || बहवो निवसन्त्यत्र जैना ऊकेशवंशजाः । धनाढ्या नृपसंमान्या धर्मकर्मपरायणाः ॥ श्रीडालचन्द इत्यासीत् तेष्वेको बहुभाग्यवान् । साधुवत् सच्चरित्रो यः सिंघीकुलप्रभाकरः ॥ बाल्य एवागतो यश्च कर्तुं व्यापारविस्तृतिम् । कलिकातामहापुर्यां धृतधर्मार्थनिश्चयः ॥ कुशाग्रीयस्वबुद्धचैव सद्वृत्त्या च सुनिष्ठया । उपार्ण्य विपुलां लक्ष्मी कोट्यधिपोऽजनिष्ट सः ।। तस्य मन्नुकुमारीति सन्नारीकुलमण्डना । अभूत् पतिव्रता पत्नी शीलसौभाग्यभूषणा । श्रीबहादुरसिंहाख्यो गुणवाँस्तनयस्तयोः । अभवत् सुकृती दानी धर्मप्रियश्च धीनिधिः ।। प्राप्ता पुण्यवता तेन पत्नी तिलकसुन्दरी । यस्याः सौभाग्यचन्द्रेण भासितं तत्कुलाम्बरम् ॥ श्रीमान् राजेन्द्रसिंहोऽस्य ज्येष्ठपुत्रः सुशिक्षितः । यः सर्वकार्यदक्षत्वात् पितुर्दक्षिणबाहुवत् ॥ नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः । सुनुवरेन्द्रसिंहश्च कनिष्ठः सौम्यदर्शनः ॥ सन्ति त्रयोsपि सत्पुत्रा आप्तभक्तिपरायणाः । विनीताः सरला भव्याः पितुर्मार्गानुगामिनः ॥ अन्येऽपि बहवस्तस्याभवन् स्वस्त्रादिबान्धवाः । धनैर्जनैः समृद्धः सन् स राजेव व्यराजत ॥
अन्यच्च-
सरस्वत्यां सदासक्तो भूत्वा लक्ष्मीप्रियोऽप्ययम् । तत्राप्यासीत् सदाचारी तच्चित्रं विदुषां खलु ॥ नाहंकारो न दुर्भावो न विलासो न दुर्व्ययः । दृष्टः कदापि तद् गेहे सतां तद् विस्मयास्पदम् ॥ भक्तो गुरुजनानां स विनीतः सज्जनान् प्रति । बन्धुजनेऽनुरक्तोऽभूत् प्रीतः पोष्यगणेष्वपि ॥ देश-कालस्थितिज्ञोऽसौ विद्या-विज्ञानपूजकः । इतिहासादि - साहित्य-संस्कृतिसत्कलाप्रियः ॥ समुन्नत्यं समाजस्य धर्मस्योत्कर्ष हेतवे । प्रचाराय च शिक्षाया दत्तं तेन धनं धनम् ।। गत्वा सभा समित्यादौ भूत्वाऽध्यक्षपदान्वितः । दत्त्वा दानं यथायोग्यं प्रोत्साहिताश्च कर्मठाः ॥ एवं धनेन देहेन ज्ञानेन शुभनिष्ठया । अकरोत् स यथाशक्ति सत्कर्माणि सदाशयः ॥ अथान्यदा प्रसंगेन स्वपितुः स्मृतिहेतवे । कर्तुं किंचिद् विशिष्टं स कार्य मनस्यचिन्तयत् ।। पूज्यः पिता सबैवासीत् सम्यग् ज्ञानरुचिः स्वयम् । तस्मात् तज्ज्ञानवृद्धयर्थं यतनीयं मयाऽप्यरम् ॥ विचार्यैवं स्वयं चित्तं पुनः प्राप्य सुसंमतिम् । श्रद्धास्पदस्वमित्राणां विदुषां चापि तादृशाम् ॥ जैनज्ञानप्रसारार्थं स्थाने शान्तिनिकेतने । सिंघीपदाङ्कितं जैनज्ञानपीठमतीष्ठिपत् ॥ श्रीजिनविजयः प्राज्ञो मुनिनाम्ना च विश्रुतः । स्वीकर्तुं प्रार्थितस्तेन तस्याधिष्ठायकं पदम् ॥ तस्य सौजन्य - सौहार्द - स्थैयादार्यादिसद्गुणैः । वशीभूय मुदा येन स्वीकृतं तत्पदं वरम् ॥ कवीन्द्रेण रवीन्द्रेण स्वीयपावनपाणिना । रस - ना' गाङ्क' - चन्द्रा 'ब्दे तत्प्रतिष्ठा व्यधीयत् ॥ प्रारब्धं मुनिना चापि कार्यं तदुपयोगिकम् । पाठनं ज्ञानलिप्सूनां तथैव ग्रन्थगुम्फनम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिधोकुलकेतुना । स्वपितृश्रेयसे चैषा प्रारब्धा ग्रन्थमालिका ॥ उदारचेतसा तेन धर्मशीलेन दानिना । व्ययितं पुष्कलं द्रव्यं तत्तत्कार्यसिद्धये ॥ छात्राणां वृत्तिदानेन नैकेषां विदुषां तथा । ज्ञानाभ्यासाय निष्कामसाहाय्यं स प्रदत्तवान् ॥ जलवाय्वादिकानां तु प्रातिकूल्यादसौं मुनिः । कार्यं त्रिवार्षिकं तत्र समाप्यान्यत्र चास्थितः ॥ तत्रापि सततं सर्वं साहाय्यं तेन यच्छता । ग्रन्थमालाप्रकाशाय महोत्साहः प्रदर्शितः ॥ नन्द' -निध्य'क'- चन्द्रा 'ब्दे जाता पुनः सुयोजना । ग्रन्थावल्याः स्थिरत्वाय विस्तराय च नूतना
Jain Education International
For Private & Personal Use Only
१
२
us 9
९
१०
११
१२
१३
१४
१५
१६
१७
१८
१९
२०
२१
२२ २३
२४
२५
२६
२७
२८
२९
३०
३१
३२
३३
www.jainelibrary.org