________________
* 58
रत्नप्रभसूरिविरचिता
[III. § 48 : Verse-3621 | सहसा संभ्रान्तः कुवलयचन्द्रः 'साधर्मिको ऽयम्' इति तत्समीपमुपागत्य प्रोवाच । 'किं त्वया सहसा 1 साहसमनीदृशं प्रारब्धम्, मुञ्च कायोत्सर्गम् । ममापि पूर्वकृतपापस्यापराधं सहस्व ।' ततः पल्लीपतिना 3 चिन्तितम् | यदसावपि साधर्मिकस्ततो मम मिथ्यादुष्कृतं दातुमुचितम् ।' इति चिन्तयन् कायोत्सर्ग 3 प्रोज्झ्य कुमाराय वन्दनकं विदधे, कुमारेणापि तस्य च । एवं तौ परस्परं दर्शितधर्मरागौ प्रीतिस्यूतadit द्वाप बिन्दुदृष्टी बभूवतुः । कुमारेणोक्तम् । 'यद्येतत्कथमेतत्, अथैतत्किमपरेण ।' एतदाकर्ण्य 'भिल्लपतिरूचे | सर्वमपि जाने परं दुष्टैः कर्मवैरिभिर्लोभपरवशः कृतः परं त्वत्संगत्या संप्रति तपोनिय- 6 मध्यानयोगैरात्मानं साधयिष्ये ।' कुमारेणोक्तम् । 'न सामान्यं तव चरित्रम् । ततः कथय कोऽसि ।' स पल्लीपतिर्जगाद | 'नास्मि भिल्लाधिपः, एतत्तव विस्तरेण कथयिष्ये । सांप्रतं पुनः सार्थ भिल्लजनै'लुण्ठ्यमानं निवारयामि ।' ततः पल्लीपतिना सार्थः सर्वो ऽपि भिल्लेभ्यो रक्षितः । भिल्लाः सर्वे पल्लीपति- 9 भयतो दूरं नेशुः । यद्यस्य संबन्धि वस्तुगतमासीत् तत्तस्य पल्लीपतिरर्पयामास । भिल्लैः सार्थपतिर्नश्यन् धृत्वा सेनापतये ऽर्पितः । तेनोक्तं च । 'सार्थपते, मा भयं भज, निजं पण्यं गृहाण' इति वदन् सेना12 पतिरुत्थाय कुमारेण समं सह्यशिखरिशिखरसंश्रयां महापल्लीमाटिवान् ।
12
$ ४१ ) कुमारेण च पल्लीं नगरीसमानश्रियं तथा तन्मध्यस्थप्रासादं विशदं विलोक्य पृष्टम् । 'यदमुष्य संनिवेशस्य किमभिधानम् ।' तेनोक्तम् । एतस्याः पल्ल्याश्चिन्तामणिरित्याख्या ।' एवमन्यान्य15 प्रश्नपरः कुमारस्तेन समं राजमन्दिरमाससाद । ततो द्वावपि मणिमयेषु भद्रासनेषु संनिविष्टौ । ततश्च 15 स्नानपीठमलंकृत्य विकसन्मालतीगन्धसनाथं लक्षपाकं तैलमुत्तमाङ्गे प्रक्षिप्य संवाहकैः कमलकोमलकरतः सुखेन संवाहितौ । ततस्तौ कोष्णैर्जलैरङ्गं प्रक्षाल्य शुचिभूय चन्द्रांशुनिचयव्यते इव श्वेतवाससी 18 परिधाय ततस्तदन्तर्वर्तिनि देवतायतने कनकमय कपाट संपुटमुद्धाट्य शिवनियो द्वारमिव भगवतां 18 जिनानां कनकरत्न निर्मिताः प्रतिमाः समभ्यर्च्य जिनस्तुतिचतुर्विंशिकां परामृश्य प्रणिपत्य च भोजनमण्डपमुपाजग्मतुः । ततश्च यथासुखं भोजनं निर्माय स्वैरं परस्परं यावद्वार्तां कुर्वन्तौ तिष्ठतस्तावद कस्मात् 21 प्रावृत सितधौत निवसनो लोहदण्डव्यापृतकर एकः पुरुषः समागत्य सेनापतेः पुरोभूय इदं पपाठ । 'जानास्य पारसंसारमसारं सागरोपमम् । वचश्च वेत्सि श्रीजैनं शिवशमैकदेशकम् ॥ ३६२ एतदध्यवसायात्तु विरतिं न करिष्यसि । अतस्त्वां लोहदण्डेन ताडयिष्यामि निष्कृपम् ॥' ३६३ 24 इति वदता तेन सेनापतिरुत्तमाङ्गे मनाक् ताडितः । ततो महागारुडमन्त्राभिमन्त्रित सिद्धार्थप्रहतो भुजंगम 24 इवाधोमुखः स्थितः सेनापतिरित्यचिन्तयत् । 'अहो, कौतुकं यदनेन निर्दयमनसा सुपुरुषस्येदृशस्य पश्यतो ऽहं प्रहतः कर्कशं भणितश्च । अथवा मम प्रमादिन एतेन रम्यमेव विरचितम् ।
27
27
जरामृत्यु महारोगदुःखतप्ता भ्रमन्ति हि । संसारघो रकान्तार प्रान्तरान्तस्तनुभृतः ॥ ३६४
तदन्तः कोऽपि यो भव्यः कर्मग्रन्थि विभिद्य सः । सम्यक्त्वरत्नं दुष्प्रापममूल्यं स्वीकरोति च ॥ ३६५ तदेव फलकं प्राप्य भवाम्भोधौ प्रमाद्यति । यः शरीरी स सद्यः स्वं तनुते ऽतनुदुःखभूः ॥' ३६६ 30 इति चिन्ताचान्तमनसं सेनापतिं बाष्पजललवलुतनयनयुगलं प्रमुक्तदीर्घनिःश्वासं दीनास्यं निरीक्ष्य 30 कुमारः प्रोवाच । 'भद्र, कथय क एष वृत्तान्तः ।' ततो दीर्घ निःश्वस्य सेनापतिर्जजल्प । 'कुमार, श्रूयताम् । ९५० ) लोकंपूणगुणग्रामाभिरामास्ति गतावमा । धरारामाल लामश्रीः पुरी रत्नपुरी वरा ॥ ३६७ स्वःपुरीवोधन्वाढ्या व्योमश्रीवत्समङ्गला । अलकावत्सधनदा या लङ्केव सदा वरा ॥ ३६८ वनावनीव सन्नेत्रा कलिता ललिताशना । सपुन्नागा सनारङ्गा श्रीफलैः सुमनोरमा ॥ ३६९ तत्र रत्नमुकुटाः प्रविश्वमहीपतिः । समस्ति पृथिवीपालः पालिताखिलभूतलः ॥ ३७० 36 तदङ्गजौ दर्पफलिको भुजफलिकश्च । एवं च तस्य राज्यं पालयत एकस्मिन्नमावास्या दिने प्रदोषे वासवेश्म 36 प्रविष्टस्य किमपि चिन्तयतः प्रदीपे पतङ्ग एकः समागतः । राज्ञा प्रकृत्यनुकम्पितहृदा चिन्तितम् 'अयं वराको मर्तुकामस्तस्मादमुष्य परित्राणं करोमि । इति चिन्तयता तेन करेण गृहीत्वा वारत्रयं 39 कपाटविवरेण बहिः प्रक्षिप्तः । स पुनरपि दीपान्तिकमायातः । राज्ञा चिन्तितम् । 'उपायरक्षितो जन्तुः 39
33
21
Jain Education International
5 ) B तदाकर्ण्य for एतदाकर्ण्य 7 ) PC साम्यं तव 8 ) P भिल्लाभिधः 9 ) B सर्वेपि for सर्वे. 11 ) Bom. च. 16 ) B समानं for सनार्थ. 21 ) 0 °निवसिनो. 22 ) P जानाम्यपारं B जानास्यपारं. 33 ) B has some marginal glosses on these verses: इंद्रास्त्रेन आढ्या, पक्षे उग्राणि धनूंषि येषां ते उग्रधन्वानो धनुर्धरास्तैराढ्या ॥ धनदा दानेश्वरास्तैः सहिताः ॥ दावं संतापं रांति यच्छंति दावरा राक्षसास्तैः सहिता पुरी सदावरा प्रधाना ॥ नेत्रैर्वृक्षविशेषैराकलिता संबद्धा, पुरी पक्षे सतां नेत्रा स्वामिना सहिता ॥ ललिता मनोहरा असना प्रियं[ गु] वृक्षा यत्र, पुरी पक्षे ललितानि आसनानि यस्यां ॥ नारंगवृक्षसहिता पुरी सह नारंगैर्जनिभिर्वर्त्तते स नारंगा ॥ बिल्वफलैः 1.
For Private & Personal Use Only
33
www.jainelibrary.org