________________
-III. § 48 : Verse 361]
कुवलयमालाकथा ३
* 57
1 च शबरवेषमङ्गीचक्रतुः । तयोर्महाधिराजेन शबरेण महाशाबरी विद्या न्यवेदि । ताभ्यां मौनव्रतं प्रतिपद्य 1 सद्यः श्रीभगवान्नाभिभवो गुरुवर्गः साधर्मिक लोकश्च ववन्दे । विद्याधराणां मध्ये कृताञ्जलिनैकेन विद्याघरेणोकम् । 'भो लोकपाला विद्याधराश्च श्रूयताम् । पूर्व शबरशीलो विद्याधरशेखरः सर्वसिद्ध शाबर 3 विद्याकोशः सप्रभावश्चिरं राज्यं परिपाल्य समुत्पन्नवैराग्यरङ्गितः प्रतिपन्नश्रीजिनधर्मः सर्वसंगं परित्यज्यात्रैव गिरिकुहरे स्थितः । तस्य पुत्रेण शबर सेनापतिना पितृभक्त्यात्रैव स्फाटिकमयी भगवत्प्रतिमा 6 निवेशिता, तदाप्रभृत्येतद्विद्यासिद्धक्षेत्रम् । ततो ऽमुष्य प्राप्तशवरवेषस्य भगवन्नाभिभवप्रभावतो धरणे- 6 न्द्रस्याभिधानेन चैषा निष्प्रत्यूहं सिद्धिमेतु । ततः सर्वे ऽपि विद्याधरा 'अस्य शीघ्रं विद्या सिध्यतु' इति प्रोच्य तमादलश्यामलं गगनतलमुत्पेतुः । ततस्तौ द्वावप्यङ्गीकृत शबर वेषौ तत्रैव तिष्ठतः । ततः कुमार 9 एतेन कीरकथनेन जाने कृतशबरवेषौ विद्याधराविमौ ।' इत्याकर्ण्य कुमारेणोक्तम् । 'एणिके, तन्ममैकं 9 वचः कर्णकटुकं श्रूयताम् ' तयोक्तम् । 'ममादेशं देहि ।' कुमारेण जल्पितम् । 'अत्रागतस्य मम कालक्षेपः समजनि, स्वस्ति भवतु भवत्यै, मया पुनरवश्यं दक्षिणापथे गन्तव्यम् ।' पणिकया भणितम् । 'कुमार, 12 सत्यमेतद्यत्कदापि प्राघूर्ण कैर्ग्रामा न वसन्ति । पुनर्निज वृत्तान्तनिवेदनप्रसादेन मम मनःप्रमोदो विधीय- 12 ताम् । ततः कुमारेण मूलादारभ्य वनप्रदेशं यावच्चरितं निजं निगदितम् । एणिकयोक्तम् । 'कुमार, त्वद्वयोगेन जनकजनन्यौ विविधाबाधाभाजनं भविष्यतः, अतो यदि भवते रोचते तदा तव कायकौशल15 कथनार्थ कीरं प्रेषयामि ।' 'एतद्भवतु' इति प्रोच्य समुत्थाय कुमारश्चचाल । ततस्तत्संगतिविरहजात- 15 मन्युभरसंभूतबाष्पजललवप्रतिरुद्धनयनालोकप्रचारा एणिका कीरेण समं कियतीं भुवमनुगम्य कुमारमापृच्छय व्यावर्तत । कुमारो ऽपि क्रमेण क्रामन् विन्ध्याटवीं सह्यगिरिं निकषा कस्यचित्सरसस्तीरे 18 सार्थ मे कमावासितं समीक्ष्य पुरुषमेकं पप्रच्छ । 'भद्र, निवेदय कुतः सार्थः समागतः कुत्र वा गमी । ' 18 तेनोक्तम् | 'विन्ध्यपुरादायातः काञ्चीपुरीं गमिष्यति ।' कुमारेण भणितम् । 'विजयापुरी कियद्दूरे, इति सम् । तेनोक्तम् । 'देव, दूरे विजयापुरी परं दक्षिणमकराकरतीरस्था भवतीति श्रूयते ।' 21 कुमारेण चिन्तितम् । 'साथैनैतेन समं मम गमनं कमनीयम् ।' ततः कुमारः सार्थपतिं वैश्रवणदत्ता- 21 भिमुपगम्य बभाषे । 'हे सार्थपते, त्वया सह समेष्यामि ।' तेनोक्तम् । 'भवत्विति महाननुग्रहः कृतः ।' ततः सार्थपतिना प्रयाणकं चक्रे ।
24 ९ ४७ ) अत्रान्तरे सहस्रकरः पश्चिमाचलचूलामा ललम्बे । सर्वत्र तमःप्रसरः प्रससार । ततः 24 कस्मिंश्चित्प्रदेशे स सार्थ आवासं रचयांचक्रे । ततो भवितव्यतया संनद्वैर्भिलैः समाकृष्टनिष्कृप कृपाणैरारोपितत्रापदण्डैः 'गृहाण गृहाण' इति वदद्भिः सार्थः सकलो ऽपि लुण्टितः । तदसमञ्जसमालोक्य लोकः 27 पलायनं चकार । इतश्च सार्थपतिदुहिता धनवती प्रनष्टे परिजने व्यापादिते पादातिकजने पलायिते 27 सार्थपती किरातैर्गृह्यमाणा भयभ्रान्तलोचना निःश्वासधोरणीं मुञ्चमाना वेपमानपीनपयोधराशरणा 'शरणं शरणम्' इति प्रार्थयमाना कुमारकुवलयचन्द्रमुपससर्प ।
ततस्तयोचे 'शौर्येण दृश्यसे सिंहसंनिभः । रक्ष भिल्लुजनत्रस्तामस्ताशङ्क त्वमद्य माम् ॥' ३५७ 30 तेनोदितं 'भयभ्रान्तलोचने चारुलोचने । मा तनु स्वतनुत्यागादपि त्रातास्मि ते ऽधुना ॥ ३५८ इति प्रोच्य
33
30
कुतोऽपि भिल्लादाच्छिद्य सशरं स शरासनम् । शरैवर्षितुमारेभे धाराभिरिव वारिदः ॥ ३५९ जर्जरं तत्प्रहारौघैर्बलं नष्टं दिशोदिशि । वीक्ष्य पल्लीपतिर्योद्धुमुद्धतः समुपस्थितः ॥ ३६० निशातशरधोरण्या तदा ताभ्यां परस्परम् । अकालवृष्टिर्विहिता कालरात्रिरिवापरा ॥ ३६१
36
९ ४८ ) ततः कुमारेण रोषारुणेक्षणेन स्तम्भनमन्त्रः प्रयुक्तः । भिलेशेनापि कुमारे स एव मन्त्रः 36 प्रयुक्तः, परं तेन कुमारस्य न किमपि जातम् । ततो भिल्लपतिना चिन्तितम् । 'अहो, को ऽप्येष महासत्त्वः सर्वकलासु कुशलो मया हन्तुं न शक्यते, किंतु प्रत्युतामुष्य हस्ततो मया मृत्युः प्राप्यः, तदलं 39 संप्रहारेण, सर्वसंगपरित्याग एव मम श्रेयान् संप्रति' इति चिन्तयन् भिल्लस्वामी रणधरण्या हस्तशतम- 39 पसृत्य करालं करवालमुत्सृज्य प्रलम्बमानभुजपरिघः परित्यक्तदुष्प्रणिधानः स्वीकृत साकारनियमः पञ्चनमस्कारं समुच्चरन् समशत्रुमित्रः कायोत्सर्गमङ्गीचकार । तादृशवृत्तं वीक्ष्य पञ्चनमस्कारवचः श्रुत्वा
1) B महाशाबरविद्या. 8 ) B कृतशाबरवेषौ om. मम. 22) Bom. हे.
8
Jain Education International
33
12 ) B प्राघूर्णिकै. 13 ) Pom. वन, Bom. निर्ज. 16 ) B किथंतीं. 21) c 31 ) B धुनु for तनु. 32 ) Bom. इति प्रोच्य 41 ) B पंचनमस्कारमुच्चरन्
For Private & Personal Use Only
www.jainelibrary.org