________________
* 46
रत्नप्रभसूरिविरचिता [III. $ 26 : Verse 2981 अपहस्तिताशेषव्यापारो रोहणपर्वतभुवं खनामि, किं वा व्यपगतभयप्रचारः सत्पुरुषसंगतो धातुवादं 1 वितनोमि ।' इत्यनल्पविकल्पसंकल्पमालाकुलितस्वान्त एकस्मिन् स्थाने सागरदत्तः श्रीफलपादपस्य 3 प्रसृतं प्ररोहमेकं ददर्श । तं च विलोक्य संस्मृताभिनवशिक्षितखन्यवादेन तेन 'नमो धरणेन्द्राय नमो 3
धनाय नमो धनपालाय' इति मन्त्रं पठता भूमितलं खनित्वा निधिलॊचनगोचरमानीतः। यावता स तं निधि गृहीतुं चिन्तयति स्म तावता ब्योनि इति वाणी प्रससार । 'वत्स, यद्यपि त्वया सकलो ऽपि 6निधिर्वीक्षितः परं स्तोकमञ्जलिमात्रं मूलद्रव्यकृते गृहाण' इत्येवं श्रुत्वा तेन श्रेष्ठिसूनुना एक एवाञ्जली 6 रूपकाणां जगृहे । निधिरपि तदैवादृश्यतामगमच्च । तद्धनं निबद्धं चानेन स्कन्धनिक्षिप्तद्वितीय
वाससः प्रान्ते। 9 २७) ततो वणिगुत्तमेन चिन्तितम् । 'अहो, चापल्यं दैवस्य ।
पूर्व दत्तो निधिदैव कथं पश्चाद्धृतः कथम् । तव वृत्त्या परिक्षातं सर्वथा ते गतिश्चला ॥२९८ तथाप्येतावतापि वित्तेन द्रविणस्य सप्तकोटीरजयित्वात्मीयं प्रतिज्ञातमवितथं करिष्ये यदि दैवं स्वयं 12 माध्यस्थ्यवृत्तिमङ्गीकरिष्यते।' इति चिन्तयन् परितुष्टमनास्तस्यामेव नगर्यां विपणिमार्गे कमपि वणिज 12
परिणतवयसं मार्दवादिगुणोपेतं स्वभावतो ऽपि सुशीलमद्राक्षीत् । तं च निरीक्ष्य चिन्तितमनेन । 'अहो, रमणीयतमाकृतिायान् वणिकपुङ्गवो ऽयं दृश्यते, ततो ऽमुष्य पादपतनं न्याय्यम्' इति ध्यात्वा तं 15 नत्वा च सागरदत्तः पुरतो निविष्टः । तेन श्रेष्ठिना महता संभ्रमेण 'स्वागतं भद्राय' इति भाषितः सः। 15
तदा च तस्मिन्नगरे कस्मिन्नपि महोत्सवे प्रवृत्ते तस्य श्रेटिनो हदे प्रत्यासन्नग्रामीणजनो ऽतीवसमत्सक
चेताः समस्तपण्यग्रहणार्थमभ्येति, तं च श्रेष्ठिनं जराजर्जरिततर्नु पण्यानि दातुमक्षममवगम्य सागरदत्तः 18 प्रोवाच 'तात, त्वं विपणिमध्यतः ऋयाणकान्यानीय मम समर्पय यथैतानि तोलयित्वा युक्त्यास्मै जनाय 18 ददामि' इत्युक्त्वा दातुं प्रवृत्तः। तत एषः 'क्षिप्रं ददाति' इत्यवगत्य सर्वोऽपि जनस्तदापणमायातवान् ।
तेन तत्क्षणमात्रेणापि पण्यान्यर्पयित्वा समग्रोऽपि जनःप्रेषितः। ऋयाणकैर्विक्रीतैर्महत्यर्थलामे श्रेष्ठिना 21 चिन्तितम् । यदयं को ऽपि महाकुलसंभवः पुण्यवान् दारको यद्ययं मम निलयमलङ्करोति तदतीव सुन्दरं 21
भवति' इति चिन्तयता जल्पितम् । 'भो वत्स, त्वं कुतः स्थानादागतो ऽसि ।' तेनोक्तम् । 'तात, चम्पापुरीतः।' श्रेष्ठिना जगदे । 'वत्स, त्वया मम गृहमलङ्करणीयम् ।' स सागरदत्तः श्रेष्ठिना समं निकेत24मुपागतः। प्रीत्या स्वपुत्रवदौशीरकशिपुक्रियया संमानितः। कियदिनानन्तरं तेन प्रवयसा तद्रूपगुण-24
ग्रामरञ्जितचेतसाभिनवोद्भिन्नयौवना निर्मलमुखमृगाङ्ककान्तिकलापकलिता विकस्वरकुवलयदलदीर्घलोचना कुसुमबाणप्रणयिनीनिभा कनी सागरदत्ताय प्रदत्ता, परं तेन तत्परिणयनं न मानितम् । भतेनोक्तम् । 'तात, किंचिद्वक्तव्यमस्ति । केनापि हेतुना स्ववेश्मतो निःसृतोऽस्मि, यदि तत्कार्य प्रमाण-27 कोटिमध्यारूढं ततो यद् यूयं भणिष्यथ तदवश्यं करिष्ये । यदि तन्न निष्पन्नं ततो मम केवलं ज्वलन
एव शरणमतोऽस्मिन्नर्थ सांप्रतं तात, प्रतिबन्धं मा कार्षीः।' श्रेष्ठिना निगदितम् । 'एवं व्यवस्थिते मया 30भवतः किं कर्तव्यम् ।' तेनोदितम् । 'यदि त्वं मम सत्य एव तातस्तदा मद्धनेन क्रयाणकं परतीरयोग्यं 30
गृहाण भाटकेन यानपात्रं च । मया परतीरं गन्तव्यम् ।' श्रेष्ठिना जल्पितम् । 'एवं भवतु' इति तद्दिनादेव
श्रेष्ठिना पुरोभूय प्रतिपादितम् । सागरोऽगण्यपण्यं संगृह्य निमित्तविहत्ते मुहूर्ते समुद्रदेवतामभ्यर्थ्य 33 तपश्चरणगुरुं गुरुं प्रणिपत्यार्हतामर्हणां कृत्वा तं वणिजमभिवाद्यापृच्छय च स्मृतपञ्चपरमेष्ठिनमस्कारः 33 प्रवहणमारूढः, पूरितः सितपटः, लब्धो ऽनुकूलः पवनः, ततो नदीशमुल्लङ्घय क्रमेण यानपात्रं यवन
द्वीपमवाप । तत्र क्रयविक्रयेण समर्जितसप्तकोटिः सागरदत्तस्तुष्टमना व्यावृत्य स्वदेशं प्रति प्रचलितः। 36 २८) अथो तद्बोहित्थं सागरान्तः कर्मपरिणत्या संजाताकालकजलश्यामलसजलजलदान्धकार- 36
च्छादितव्योमतलादृश्यमाननक्षत्रतया निर्यामकैरुत्पथप्रेरितं कस्यापि गिरेर्दान्तके आस्फाल्य कामिनीनिवेदितरहस्यमिव त्वरितं प्रपुस्फोट । तत्र च निखिले ऽपि जने विपन्ने केवलं सागरदत्तःप्राप्तफलकः 39 कथमपि तुङ्गतरङ्गमालाभिः प्रेर्यमाणः पञ्चभिरहोरात्रैश्चन्द्रद्वीपमवाप्य मूर्छानिमीलितलोचनस्तीर- 3
पादपाधोभागे क्षणमेकं पवनस्पर्शलब्धचेतनस्तृषातरलितचेतोवृत्तिः क्षुधातः सर्वत्र परिभ्रम्य वचन प्रदेशे नालिकेरनारङ्गमातुलिङ्गपनसदाडिमीप्रमुखद्रुमफलैः कृतप्राणाधारश्चन्दनलवलीलवङ्गलतागृहं
1) P प्रचारः पुरुष. 3) On खन्यवाद B has a marginal gloss like this : भूमिगतनिधानखननविधिः . 7) P B रूपकानां. 10) D तत्व for तव. 12) B मध्यस्थवृत्ति. 13) तेन चिंतितं for चिन्तितमनेन. 21) 0 दारकोऽपि यद्ययं. 24) B has a marginal gloss: कुशीरं शयनासने कसिपुर्भोजनाच्छादो. 27) ० तात यत्किञ्चिद्वक्तव्यमस्ति [यदहं]. 29) B has a marginal gloss प्रतिबंध आग्रहं ।। 32) P गण्य पण्यं. 37) B गिरेःतके. 38) B त्वरित पुस्फोट. 40) B रतृष्णातरलित. 41) B has a marginal gloss on लवली thus: लताविशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org