________________
-III. § 31 : Verse 307]
कुवलयमालाकथा ३
* 47
1 वीक्ष्य संजातचित्त कौतुकस्तमुद्देशं यावदाजगाम तावत्सहसा कस्यापि स्वर इव श्रवणातिथित्वं भेजे । 1 तमाकर्ण्य चिन्तितमनेन । 'अत्र तावत्पूर्व मनुष्य प्रचारो ऽपि न कथं बालाया इव शब्दः । अहो, अहमपि कुत्र प्राप्तो ऽस्मि यन्न कथास्वपि श्रूयते यत् स्वप्ने ऽपि न दृश्यते तदैव देवेन घट्यते' इति चिन्तयता 3 यावन्निरूपितं तावत्कदलीतरुनिकुरुम्बान्तरे रक्ताशोकतरुतले ऽसामान्यरूपातिशया गुणग्रामाभिरामा काचित्प्रत्यक्षा वनदेवतेव वनिता दत्तकण्ठपाशा दृष्टा । ततस्तया प्रजल्पितम् । 'श्रूयतां वनदेव्यः, परस्मि6नपि जन्मान्तरे ममेदृशं मा भूयात्' इति भणन्त्या तयात्मोद्वबन्धे । अत्रान्तरे तेन करुणाशरणेन सहसागत्य तस्याः पाशश्चिच्छिदे, पतिता सा धरायां वायुनाश्वासिता च । चन्दनकिशलयरसेन विलिप्तं वक्षःस्थलम् । तया लब्धसंज्ञया सागरदत्तो ददृशे । तं वीक्ष्य ससाध्वसहृदया स्ववासः संवरी तुमारेभे । १ तेन भणिता ।
9
'पुष्पबाणप्रिया किं त्वं वनलक्ष्मीः किमत्र वा । किमात्मारोपितो दुःखे निवेदय कृशोदरि ॥ २९९ उवाच सा 'रतिर्नैव नास्मि लक्ष्मीर्वनस्य च । समाकर्णय मद्वृत्तं त्वमेकाग्रमनाः पुनः ॥ ३००
२९) अस्ति दक्षिण मकराकर तीरे जयतुङ्गा नाम नगरी । तत्रोत्तुङ्ग श्रिया वैश्रमण इव वैभ्रमणः 12 श्रेष्ठी । तस्याहं दुहितात्यन्तप्राणप्रिया । अन्यदादिवसे स्वभवनकुट्टिमतले शय्यायां प्रसुप्तानेकशकुनिश्वापदकलकलरवेण विबुद्धा यावच्चिन्तयामि तावदनन्तपादपशतदलावलि निरुद्धतरणिकिरणजालं कान्तार15 मेव पश्यामि । तच्च वीक्ष्य भयावेशकम्पिततनुलता विलपितुं प्रवृत्ता ।
भविष्यामि कथं तात निराशा हा त्वयोज्झिता । इदानीं कानने भीमे शरणं भावि कुत्र मे ॥ ३०१ अत्रान्तरे 'तव शरणम स्मि' इति जल्पन् दिव्यरूपधारी को ऽपि पुमान् लतानिकेतनतः समुत्तस्थौ । 18 तमालोक्य द्विगुणतरं समुपजातक्षोभा रोदितुमारेभे, स च मत्समीपमुपागत्य वक्तुं प्रावर्तत ।
18
12
21
6
'मुञ्च माश्रूणि तन्वङ्गि न करोमि तवावमम् । त्वद्रूपाक्षिप्तचित्तेनापहृतासि मयाधुना ॥ ३०२ बाला जगाद सा 'कस्त्वं केन ते कथितास्मि च ।' तन्निशम्य ततो ऽवोचन्नरः शृणु शुभानने ॥ ३०३ ९ ३० ) अस्ति वैताढ्य पर्वतः । तच्छिखरनिवासिना मया विद्याधरेण महाबलवता त्रिदशवनिता- 21 नामपि मान से क्षोभकारिणा निखिलमपि क्षोणीतलं कलयतोपरितनकुट्टिमतले तलिने प्रसुप्ता तलिनोदरी त्रिभुवनाधिकशालिनी इतिकृत्वा भवती मम मनसि प्रवेशं चक्रे
24
24 प्रेमोल्लसति कस्यापि कापि दैववशात्तथा । विनेतुं शक्यते यन्न विलग्नं वज्रलेपवत् ॥ ३०४ ततो 'नापरो ऽत्रोपायो ऽस्ति' इति विचिन्त्याहं सुप्तां त्वामपहृत्य निजगुरुशङ्कितो निजनगरं न गतः किन्त्वत्र द्वीपे विजने समागतो ऽस्मि, अतो मया सह भोगान् भुङ्क्ष्व, दुःखं मा धेहि ।' अतो मया 27 चिन्तितम् । 'तावदहं कन्या न कस्यापि दत्ता, अन्येनापि वणिजा परिणतव्या, ततो वरमयं सुन्दराकृति- 27 विद्याधरः त्रिजगतीयुवतिजनवल्लभः स्नेहमोहितमना यदि मत्करग्रहं करोति तदा मया किं न लब्धम्' इति चिन्तयन्त्या मयोक्तम् । 'अहं त्वयात्र कानने आनीता यन्तुभ्यं रोचते तत्समाचरेः । ततः सहर्ष30 संभृतचेताः समजायत । अत्रान्तरे कर्षितकरालकरवालभैरवो विद्याधर एकः 'रे रे अनार्य, कुत्र ब्रजसि ' 30 इति जल्पन् प्रहर्तुमायातवान् । ततो मे दयितः समाकृष्टरिष्टी 'रे रे दुष्ट, मत्कलत्रापहारं कर्ता' इति वदन् तेन समं योद्धुमारेभे । ततस्तौ युध्यमानौ निशिता सिघातैः परस्परं लूनशीर्षौ क्षितौ निपतितौ 33 विलोक्य महदुःखाक्षिप्तचित्ता विलपितुं प्रवृत्ता ।
'हा सौभाग्यनिधे नाथ रूपश्रीजितमन्मथ । मामेककां परित्यज्य वने कुत्र गतो भवान् ॥ ३०५ गृहादानीय मुक्त्वात्र मामेकां काननान्तरे । जीवेश मा व्रज काप्यथवा नय निकेतने ॥ ३०६ 36 ३१) तत एवं विलप्य मरणकृताध्यवसायया मया 'यथा भूयो भवदुःखानां पदं न भवासि' 36 इति चिन्तयन्त्या लतावेश्मनि लतापाशं विरचय्य खं च शोचन्ती स्त्रीजन्म गर्हमाणा कुलदेवीं संस्मर्य मातापितरौ प्रणम्य चात्मा बबन्धे । अतो न जाने किं वृत्तम्, केवलं भवान् वीज्यमानो दृष्टः । कुतस्त्वं 30 कुत्रत्यः, कथमत्र दुर्गमे द्वीपे ।' ततः सागरदत्तः स्ववृत्तान्तं प्रतिज्ञारोहणाद्यं यानपात्र विघटनान्तं निवे- 39 दयामास । ततस्तयोक्तम् । एवंविधे विषमे कार्ये संप्रति त्वया किं करणीयम् ।' सागरदत्तेनोक्तम् । 'सत्पुरुषाः प्राणान्ते ऽपि न प्रतिज्ञाभङ्गं विदधति ।' तया जल्पितम् । 'दैवायत्ते प्रतिज्ञानिर्वाहे न किमपि 42 भद्र, तव दूषणम्, तत्किं त्वया संप्रति विधेयम् ।' स भूयो ऽप्युवाच 'ममैवं समुद्रान्तभ्रंमत एकादश 3 ) B तदेव for तदैव. 5 ) PB om. वनिता 6 ) P भणत्या 7 ) P वलिप्तं for विलिप्त. 12 ) PB करप्रतीरे, B नगरी उत्तुंगश्रिया. 13) B प्रसुप्ता । अनेक. 17 ) Pom. इति, B दिव्यधारी, P B om. पुमान्. 22 ) P प्रसुप्ता । मलिनोदरी प्रसुप्तामलिनोदरी 26 ) PB द्वीपे निर्विजने 40 ) Bom. त्वया.
Jain Education International
For Private & Personal Use Only
15
33
42
www.jainelibrary.org