________________
-III. § 26 : Verse 297 ]
कुवलयमालाकथा ३
* 45
1 चित्पूर्वजन्मस्मरणसाभिज्ञानेन धर्मप्रतिपत्तिरस्माकं भवेत् ।' इति भणद्भिस्तैर्भुवमागत्य तानि तत्र निक्षि- 1 यत्र वने तस्य कण्ठीरवस्योत्पत्तिः । विवरद्वारे च महती शिला प्रदत्तेति । ततस्ते सर्वे ऽपि स्वविमानलक्ष्मी मलंचकुः । तत्र ते दिव्यसुखमनुभवन्तस्तिष्ठन्ति ।
6
प्रत्यर्थिपार्थिवप्रत्तकम्पा चम्पाभिधा पुरी । चम्पकैर्द्दश्यते यत्र दैवतोद्यानसौरभम् ॥ २८७ धनदत्ताभिधस्तत्र पवित्रमतिशेखरः । श्रेष्ठी यस्तु श्रिया श्रीदलीलामालम्बते किल ॥ २८८ तस्य श्रीपतेरिव लक्ष्मीर्लक्ष्मीर्नाम्ना प्रियतमा । स पद्मप्रभजीवस्तत्कुक्षिसंभवः सागरदत्ताभिध9 सूनुर्जातः । पञ्चभिर्धात्रीभिः प्रतिपाल्यमानः स कान्त्या गुणैः कलाकलापेन च प्रवर्धमानः क्रमतो 9 यौवनश्रियमाश्रितः । पित्रा समानसमाचारशीलस्य कस्यचिद्वाणिजस्य कन्यकां स श्रीसंज्ञां परिणायितः ।
सुखं वैषयिकं साकं श्रेष्ठिसूनोस्तयानिशम् । तस्यानुभवतः स्वैरं शरलक्ष्मीरवातरत् ॥ २८९ फलप्राग्भारमासाद्य सद्यः कलमशालयः । भजन्त्येव नतिं यत्र नयवन्त इव श्रियम् ॥ २९० भेजुर्जलानि नैर्मल्यं हृदयानि सतामिव । अयुगच्छदसौगन्ध्यवासिता हरितो ऽभवन् ॥ २९९ यत्र तीव्र करस्तीयैः करैश्च समतापयत् । कुभूपतिरिव स्वैरमखिलं भूमिमण्डलम् ॥ २९२ अभूजनः सुराशीव यत्र सन्मार्गजाङ्घिकः । सरोवतंसाः क्रीडन्ति राजहंसाश्च सश्रियः ।। २९३ एवंविधायां शरदि स सागरदत्तः स्निग्धमुग्धबन्धुजनान्वितः पुरीबाह्योदेशमुपागतः । कौमुदीमहोत्सवं दृष्ट्वा कस्मिंश्चिच्चच्चरे नटपेट कान्तः केनापि पठ्यमानं कस्यापि कवेः काव्यमशृणोत् । 'यो धीमान् कुलजः क्षमी विनयवान् वीरः कृतज्ञः कृती रूपैश्वर्ययुतो दयालुरशठो दाता शुचिः सूत्रपः । सद्भोगी दृढसौहृदो ऽतिसरलः सत्यवतो नीतिमान् बन्धूनां निलयो नृजन्म सफलं तस्येह चामुत्र च ॥' २९४
18
12
९ २५) ततः कुमारकुवलयचन्द्र, तेषु पद्मप्रभदेवो विगलच्छरीर कान्तिः परिम्लानवदनः सुदीनमनाः पवनाहतप्रदीप इव झटिति विध्यातः । ततो जम्बूद्वीपे द्वीपे भरतक्षेत्रे
15
21
3
12) P भजते वनति. 18 ) P shows blank space for नयवान्. 20) B सौहृदोज्जलमनाः सत्यवतो. 24 ) B विन्महासत्वश्वेति 32 ) B तया for ततस्तया 35 ) Binter. कांतां & श्रियं. 36 ) B द्वितीयं च . 41 ) B संकीर्णः तुंग.
Jain Education International
6
For Private & Personal Use Only
12
15
२६) ततस्तेन सुभाषितरसपूरितचेतसा भणितम् । 'भो भो भरतपुत्राः इदं लिखत यत्सागरदत्तेनामुष्य सुभाषितस्य लक्षं देयम् ।' ततः कैश्चिन्नागरैरुपश्लोकितः । 'यदयं सागरदत्तो महारसिको 24 विदग्ध दाता प्रस्तावविदहो सत्त्वश्च' इति । अपरैश्च जल्पितम् । 'अमुष्य किं स्तूयते यः पूर्वोपार्जितं 24 वित्तजातमर्थिभ्यो ददाति स कथं प्रशस्यः । यः पुनर्निजभुजसमर्जितमर्थ व्ययति स एव प्रशंसाभाजनम् ।' अहो, 'एतैर्ममोपहासः कृतः' इति चिन्तयतस्तस्य तद्वचश्चेतसि शल्यमिव लग्नम् । ततो ऽपत्रपापरो 27 वीक्षापन इव गृहमागत्य स शय्यायां निविष्टः । यतः,
विज्ञानामध्य विज्ञानां मुदे मिथ्यापि हि स्तुतिः । निन्दा सत्यापि विज्ञानामपि दुःखाय जायते ॥ २९५ ततः श्रिया चेष्टिताकार परिज्ञान कुशलया चिन्तितम् । 'अद्य कथं मम पतिरुद्विग्न इव लक्ष्यते । यतः, जानन्ति जल्पितादपि निःश्वसितादपि विलोकितादपि च ।
30
ते परमनांसि येषां मनस्तु वैदग्ध्यमधिवसति ॥ २९६
18
21
ततस्तया भणितम् । 'अद्य नाथ, कथं भवान् विलक्ष इव ।' तेन चाकारसंवरणं कुर्वताभ्यधायि । 'प्रियतमे नहि नहि, किंतु शरत्पूर्णिमायां कौमुदीमहोत्सवं प्रेक्ष्यमाणस्य मम महान् परिश्रमः समजन्यत 33 ईदृशः, न पुनरन्यो हेतुः' इत्युक्त्वा स स्थितः । ततो रजन्यां शय्यागृहे ऽलीकं प्रसुप्तः क्षणं किमपि दध्यौ च । ततः सागरदत्तस्तां श्रियं कान्तां प्रसुप्तां परिज्ञाय मन्दं मन्दमुत्थाय वसनखण्डं परिधाय 36 द्वितीयखण्डं च स्कन्धे क्षित्वा खटिकाखण्डेन वासभुवनान्तरे स्वेनैव विरचितं श्लोकमेतं भारपट्टे लिलेख | 36 'वर्षान्तरे न यद्यस्म सप्तकोटीः समर्जये । विशामि ज्वलने ऽवश्यं ज्वालामालाकुले ततः ॥ २९७ इदं लिखित्वा वासवेश्मतो निःसृत्य नगरनीरनिर्गमद्वारेण दक्षिणाशां प्रति चचाल । स च क्रमतः 39 सर्वत्र जनपदस्वरूपं निरूपयन् दक्षिणाम्बुधितीर विराजिनीं जयश्रीनगरीमवाप । स तत्पुरीबाह्योद्देशे 39 एकस्मिन् जीर्णोद्याने ऽशोकानोकहतले दूरमार्गश्रमव्यपगमाय निषण्णश्चिन्तयामासेति । 'किमतुच्छPrerna पकीर्णित तुङ्गतरङ्गसंगते सागरे यानपात्रमारुह्य परतीरं व्रजामि, किं वा चामुण्डायाः 42 पुरस्तीक्ष्णक्षुरिका विदारितोरुयुगलसमुच्छलल्लोहितपङ्किलभूतलं मांसखण्डैर्बलिं ददामि किं वा रात्रिंदिवं 42
27
30
www.jainelibrary.org