________________
-III. $ 9 : Verse 168] कुवलयमालाकथा ३
* 35 1 दैवाच्चम्पेशसैन्यस्य सुभटैः करटैरिव । दिवान्धसैन्यवद्धर्षसैन्यं दैन्यमनीयत ॥ १२९
पताकिन्यपि निःशेषा तस्य हर्षमहीपतेः। ननाश काकनाशं सा जीवमादाय सत्वरम् ॥ १३० 3
नश्यद्भिः पदिकैस्त्यक्तो विनीतो ऽपि गते विभौ । परं प्रेष्यैर्न तैर्मुक्तश्चेतनः सुकृतैरिव ॥ १३१ 3 पलायमानः प्रैक्षिष्ट स विनीतः सरस्वतीम् । तत्र स्नात्वा पयः पीत्वा तीरवृक्षमशिश्रयत् ॥ १३२ $८) अत्रान्तरे कान्दिशीकमेकमायुधपाणिना । केनचित्सादिना हन्यमानं मृगमवैक्षत ॥ १३३ कृपासंपूरितस्वान्तः स तयोरन्तरा स्थितः । यतः प्राणिपरित्राणं स्वप्राणैः के ऽपि कुर्वते ॥ १३४ 6 तस्मिन सरले सारले गते दरं निरीक्ष्य सः। जगाद सादिनं रोषपोषिणं मगरक्षणात ॥१३५
सर्वप्राणिशरण्यानामुन्नतानां महात्मनाम् । त्वादृशां न समीचीनं दीनजन्तुविनाशनम् ॥ १३६ 9 मन्ये त्वं लक्षणैरेभिः कोऽप्यसि क्षत्रियोत्तमः । शस्त्रधातो गृहीतास्ने क्षत्रियाणां प्रशस्यते ॥ १३७ 9
इत्यादिवाक्यैः पीयूषपेशलैस्तस्य तन्वतः । स भूपः पृथिवीचन्द्रः प्रबुद्धः कोपमत्यजत् ॥ १३८
धर्मोपदेशदातासौ ममाभूदिति तं समम् । उपकारचिकीः क्षमापः पुरे क्ष्मातिलके ऽनयत् ॥ १३९ 12 तं विनीतं महीनाथः स्वपुरे सचिवं व्यधात् । सर्वाधिकारिणं यस्माहुणैः कस्को न रज्यते ॥ १४० 12
एतस्यानुपदं ते ऽथ त्रयोऽपि प्राच्यकिंकराः । तामेव नगरी प्राप्य सेवाहेवाकिनो ऽभवन् ॥ १४१ रक्षता सततं तेन न्यायेन नगरीजनम् । ऊर्जितोपार्जिता कीर्तिरात्मीयो ऽर्थस्तु साधितः ॥ १४२ तेनेत्युक्ताः कर्मकृतः स्नेहाकिमपि याचत । ते ऽवदन्निति निर्लोभा भाग्यैर्लभ्या हि किंकराः॥ १४३ 15 ६९) अथ क्षमापुरी भग्ना क्षणादेव जितारिणा । चम्पापुरीमहीपेन सर्वसैन्यजुषा रुषा ॥ १४४ स्वपुरीस्वपुरीस्वामिभङ्गतो वित्तहानितः । विषवाक्यो विनीतात्मा प्रवव्राज विरागवान् ॥ १४५ तप्यमानस्तपस्तीवं सहमानः परीषहान् । आधीयानः स सिद्धान्तं तन्वन्नाराधनां गुरौ ॥ १४६ 18 पापकर्मसु तन्द्रालुः श्रद्धालुर्धर्मकर्मसु । दयालुः सर्वभूतेषु स्पृहयालुः शिवाध्वनि ॥ १४७ सासहिश्वोपसर्गाणां शीलाङ्गानां च वावहिः। चाचलिः श्रमणाचारे सिद्धान्ताध्वनि पापतिः॥१४८ आजगाम समं स्वेन गुरुणा करुणानिधिः । तत्र क्ष्मातिलकपुरे विषवाक्यमुनिः क्रमात् ॥ १४९ 21
चतुर्भिः कलापकम् ।। अनुशाप्य गुरून् सो ऽथ मासक्षपणपारणे । प्रविवेश परिभ्राम्यन् विनीतसचिवौकसि ॥ १५० कथमेवंविधो भूत्वास्माकीनस्वामिनः पिता । उञ्चनीचादिगेहेषु पर्यटत्येष दुर्बलः ॥ १५१ 24 ततस्तमघसंघातघातिनं व्रतिनं मुदा । कर्ममर्मच्छिदं कर्मकृतः सर्वे ववन्दिरे ॥१५२
तहत्तमन्नपानाद्यमकल्प्यमिति चेतसि । विचिन्त्य नाग्रहीत्साधुावृत्योपाश्रयं गतः ॥ १५३ 27 आगतस्य नृपावासाद्विनीतस्य च तस्य ते । प्रमोदमेदुराः कर्मकरास्तच्च न्यवेदयन् ॥१५४ । 27
तथैव सुविनीतात्मा विनीतो मन्त्रिपुङ्गवः । तपःपात्रस्य शिश्राय मुनेः पितुरुपाश्रयम् ॥ १५५ निरीक्ष्य विषवाक्यस्य मुनेरास्यसितद्युतिम् । विनीतसचिवाधीशचित्ताम्भोधिरवर्धत ॥ १५६ शुशोच च खं ययं मम वेश्मागतोऽपि हि । अगृहीतान्नपानीयो मुनिर्व्यावृत्य जग्मिवान् ॥ १५७ 30 स विनीतस्ततः शुद्धश्रद्धासंभारसंभृतः। अवन्दत गुरून् पूर्व तथा च जनकं निजम् ॥ १५८ ततो गुरुरभाषिष्ट स्पष्टवाग्मन्त्रिनायक । शृणु धर्मवत्रश्चारु क्षिप क्षिप्रमघव्रजम् ॥ १५९। मा मुहस्त्वं मुधा नेहे ऽमुष्मिन् संसारकारिणि । आदरं कुरु सद्धर्मे ध्रुवं संसारहारिणि ॥ १६० 33 धर्मः पितेव मातेव हितं यद्विदधात्ययम् । क्रियते तन्न केनापि शिशूनासिव देहिनाम् ॥ १६१ स च धर्मस्तितिक्षादिर्भिक्षूणां दशधा मतः । सम्यक्त्वमूलो गृहिणां ज्ञेयो द्वादशधा पुनः॥ १६२ देवे ऽहंति गुरौ साधौ धर्मे च जिनभाषिते । या स्थिरा वासना सम्यक् सम्यक्त्वमिदमाश्रय ॥ १६३ 36 स्थूलाहिंसादीनि पश्चाणुव्रतानि गुणत्रिकम् । शिक्षावतचतुष्कं च स्वीकुरुष्व शिवश्रिये ॥ १६४
विधेहि विधिना मन्त्रिन् त्रिसंध्यं देवतार्चनम् । चिरं चारुयशः कुन्दधवलं प्रामुहि स्फुटम् ॥ १६५ 39 दीनादीनां श्रियं देहि विधेहि विशदं मनः। न्यायाध्वनि भवाध्वन्यो भिन्द्धि क्रोधादिशात्रवम् ॥ १६६ 39
जिनेन्द्रमुखसंभूतं सिद्धान्तं सादरं शृणु । सिद्धिसीमन्तिनी शर्मदायिनी तत्क्षणादृणु ॥ १६७ सर्वसौख्यमयं स्थानं क्वापि मोक्षं विना न यत् । विद्यते देहिभिर्भाव्यं तत्तदर्थ समुत्सुकैः ॥ १६८ 12) P सर्वाधिकारणं. 15) P तेवदन्नतिनिर्लोभा B तेवदन्नेति', 25) P संयात. 26) B तद्दत्तमन्नपानीयमकल्पमिति. 33) P ध्रुवसंसार. 41) समुत्सकैः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org