________________
* 34
1
3
6
9
121
15
18
21
24
27
30
33
36
39
रत्नप्रभसूरिविरचिता
3
[III. $ 6: Verse 97 - यस्या उन्नत[रम्य] राजसदनश्रेण्याः पुरो मेनकाप्राणेशो ऽपि बभूव हीनमहिमा वन्यश्रियामग्रतः । 1 निःस्वानन्दन काननस्य सुषमा क्षीराशयानां पुरः पंपादीनि सरांसि हन्त नितरां मुञ्चन्त्यहं कारिताम् ॥९७ तत्र क्षमापतिरभूत् क्षमापतिकृतस्तुतिः । नभस्तले भानुरिव श्रीमान् हर्षाभिधः सुधीः ॥ ९८ विद्यमाने लोभो यस्याधिको ऽभवत् । अभिरामं गुणग्रामं ग्रहीतुं गुणशालिनाम् ॥ ९९ समुद्रकन्दर्पघनाघनानां सारं समादाय विधिर्यधाद्यम् । न चेदिदं तत्कथमन्यथाभूदसौ गभीरः सुभगः प्रदाता ॥ १०० यश्चानूनगुण प्रसून पटलप्रत्युल्लसत्सौरभव्याप्ताशेष महीतलः शुभकलः श्रेयः श्रियामाश्रयः । स्फूर्जत्कीर्तिलता वितान विलसत्कन्दः सदानन्दभूः प्रोन्मीलत्सुकृतोन्मुखो न विमुखो याच्याकृतां कुत्रचित् ॥ १०१ माद्यच्छात्र वकोटिकोटिकर टिप्रस्फोट कण्ठीरवस्ताम्यन्नी तिलतावली किशलनप्रोद्दामधाराधरः । यत्कीर्त्या च शुचीकृते त्रिभुवने श्रान्तं स्फुरन्त्याभितः सर्वज्ञो ऽपि वसन वेत्ति नियतं कैलासशैलं निजम् ॥ १०२ कल्पद्रुमाद्या ददतीप्सितं यत् सा शास्त्रवार्ता किल तेन दृश्या । प्रत्यक्षमेतं वसुधाधिनाथं तत्तन्मयं निर्मितवान् विधाता ॥ १०३ तत्र श्रेष्ठपदभ्रष्टः श्रेष्ठी दौर्मुख्यदोषतः । विषवाक्य इति ख्यातो विद्यते कृषिजीवनः ॥ १०४ अन्यदा भक्तमादाय स्वयं कर्मकृतां कृते । गच्छन् शून्ये ददर्शेष रुदन्तं बालमेककम् ॥ १०५ प्रोद्यत्कृपाभरभ्राजिहृदयः शिशुमाशु तम् । लात्वा स्वपाणिनारोप्य कटीतटमभोजयम् ॥ १०६ त्यक्तः केनाप्ययं पाको वराकस्तद्विपत्स्यते । स्वीकृतेनैव तेनेति श्रेष्ठी क्षेत्र ययौ निजम् ॥ १०७ स स्ववेश्म समागत्यापत्याभावार्दितस्ततः । दीनास्यायै कुटुम्बिन्यै तं मुदा डिम्भमार्पयत् ॥ १०८ 21 लाल्यमानस्तया नित्यमात्मनात्मेव बालकः । कलाभिः कलितः प्राप कलाभृदिव यौवनम् ॥ १०९ दग्धं पितृगिरा लोकं स्ववाक्यैरमृतैरिव । निर्वापयन्नभूत्ख्यातः संख्यावान् सर्वतो ऽपि सः ॥ ११० विनीत इति नाम्नाथ सर्वत्र प्रथितो ऽभवत् । श्रेष्ठित्वं नृपतिस्तुष्टो ऽदात्तस्मै तत्पितुः पदम् ॥ १११ 24 जिनशासन माहात्म्यसमुल्लासनवासनः । अभिरामगुणग्रामद्रुमारामो ऽवनीतले ॥ ११२ यो ऽभवन्नयनानन्ददायी यायी सदध्वनि । अवदातयशोजातसं पूरितदिगन्तरः ॥ ११३ श्रमणक्रमणाम्भोज सेवा हेवापरः सदा । अर्थ संप्रीणितात्यर्थावनीतलवनीपकः ॥ ११४ पैतृकं च पदं प्राप्य प्रसन्नमनसो नृपात् । स विनीतः श्रियां पात्रं भाग्यसौभाग्यभूरभूत् ॥ ११५ ९७) अथ तत्रैव दुर्भिक्षं भीषणं समुपस्थितम् । यत्र धर्मक्रियालोपो भव्यानामपि संभवेत् ॥ ११६ कुतोऽपि स्थानतो ऽभ्येत्य नित्यदुर्भिक्षदुःखिताः । वृद्धो वृद्धा युवा चैको ऽभवंस्तदनुजीविनः ॥ ११७30 अथ वैरिदत्तकम्पा चम्पा नाम महापुरी । तत्रास्ति पृथिवीनाथो जितारिरिति संशया ॥ ११८ प्रतापी कमलोलासी नृपस्तपनसंनिभः । न कर्कशकरश्चित्रं न गोमण्डलतापकृत् ॥ ११९
20 >
1) P उत्तरराज B उन्नतराज 3 ) P क्षमापतिः कृत. ' 4 ) B को भवेत् । 5 ) P घनाघनीनां 15 ) P B दृश्या: P द्विपश्यति 25 ) B द्रुमारामेवनीतल: 26 ) P यशोयातः 28 ) P विनीतश्रियः पात्रं B विनीतः श्रियः पात्रं. 30 ) P वृद्धो वृद्धीमुवाचैको 33 ) P प्रभुस्त्वर्थिने 39 ) P °हितांगाच्छोछलत् शोणित..
Jain Education International
6
For Private & Personal Use Only
9
12
15
श्यामास्यो हि घनो वर्षन् तमोघ्नस्तपनस्तपन् । यः प्रभुस्त्वर्थिनो ऽत्यर्थमथैः प्रीणन्न तादृशः ॥ १२० 33 श्रीदः कृत हर्षश्रीर्जिघृक्षुस्तमधीश्वरम् । प्रचचाल विनीतेन सार्धं प्रेष्ययुतेन सः ॥ १२१ तदागमं परिज्ञाय चम्पेशः संमुखो ऽचलत् । ततः परस्परं युद्धं सैन्ययोरुभयोरभूत् ॥ १२२ अरुत्सादिनं सादी निषादी च निषादिनम् । रथिको रथिकं पत्तिः पत्तिं च स्फूर्तिमूर्तिभृत् ॥ १२३ 36 निशातशरधोरण्या भटैर्दर्पसमुद्भवैः । अकालवृष्टिविहिता कालरात्रिरिवापरा ॥ १२४ रणे निपेतुर्मातङ्गास्तीव्रं प्रदरजर्जराः । शतकोटिक्षताः साक्षात् पर्वता इव सर्वतः ॥ १२५ शितकुन्ताहताङ्गाच्चोच्छलच्छोणितदम्भतः । कौसुम्भवसनेवाभूदम्भोधिवसना युधि ॥ १२६ निज स्वामिप्रसादस्याभूम भूना ऽनृणा वयम् । इति वीरकबन्धास्ते नृत्यन्तस्तत्र रेजिरे ॥ १२७ उल्ललल्लोहिताम्भोभिर्भीमा सङ्ग्रामभूमिका । कबन्धानि वहत्याशु काष्ठानीव तरङ्गिणी ॥ १२८
18
27
39
www.jainelibrary.org