________________
-III. $ 6 : Verse 96 ] कुवलयमालाकथा ३
* 33 __ 1 द्वितीये त्वाढको ऽनेके द्रोणा वर्षे तृतीयके । खारीशतानि तुर्ये तु पल्यलक्षाणि पञ्चमे ॥ ५९ 1
अथान्यस्मिन् दिने श्रेष्ठी निमन्त्र्य स्वजनान् बहून् । महान्तमुत्सवं चक्रे पूर्वरीत्या निकेतने ॥ ६० समायोज्झिका ज्येष्ठां वधमर्थयति स्म सः। वत्से समर्पय मम तच्छालिकणपञ्चकम् ॥ ६१ 3 तदाकर्ण्य गृहस्यान्तः सहसापि प्रविश्य सा । पञ्च शालीनथानीय तस्य हस्ते समार्पयत् ॥ ६२ तेनापि जल्पिता सर्वप्रत्यक्षं शपथैर्निजैः। त एव शालयो वत्से न वा सत्यं वदाधुना ॥ ६३ ।। तयाथ जल्पितं तात प्रोज्झितास्ते मया कणाः । श्रुत्वेति लोकपुरतः श्रेष्ठी रुष्टः स जल्पति ॥ ६४ 6 अयुक्तं कृतमेतेन यूयमेतद्भणिष्यथ । अन्यथा पापया त्यक्ताः शालयस्ते मदर्पिताः ॥ ६५ तस्मादस्याः करिष्यामि फलं तत्यागसंभवम् । छगणादिपरित्यागकारिणी भवतूज्झिका ॥ ६६ द्वितीयां तामथाहूय श्रेष्ठयूचे पुत्रि तान् कणान् । समर्पय ममेदानीं साब्रवीद्भक्षिता मया ॥ ६७ १ स श्रेष्ठिपुङ्गवो ऽवोचत् स्वजनानां पुरस्ततः । पचनादिषु कार्येषु भवताद्भक्षिका वधूः ॥ ६८ तृतीया श्वशुरेणोक्ता सा शालिकणरक्षणम् । निजं न्यवेदयत्तुष्टः श्रेष्ठिश्रेष्ठस्ततो ऽप्रदत् ॥ ६९ मदीयमन्दिरे लोकाः कोशे सर्वाधिकारिणी । वधूटी रक्षिकानाम्नी भवत्वेषा ममाशया ॥ ७० 12 आकार्य जल्पितानेन चतुर्थी रोहिणी ततः । समानय कणान् पञ्च वत्से त्वमपि सांप्रतम् ॥ ७१। प्रजल्पितं तया तात शकटानि बहूनि मे । अर्घ्यन्तां वृषभाः प्राज्याः शालिरानीयते यथा ॥ ७२ अभाणि श्रेष्ठिना तेन वत्से पञ्च कणाः कथम् । जज्ञिरे यानवाह्यास्ते स हेतुः कथ्यतां मम ॥ ७३ 15 यत्कृतं मूलतो वध्वा कथितं तत्पुरस्तथा । मुदितस्तत्तदाकर्ण्य स श्रेष्ठी समजायत ॥ ७४ स्नुषायाः सो ऽर्पयामास शकटान् वृषभांस्तथा । अथानीतस्तया वध्वा शालिः सर्वः पितुर्ग्रहात् ॥ ७५ प्राहाथ स्वजनो धन्यो धनो यस्येदशी वधूः । निन्यिरे कीदृशीं वृद्धिं पञ्च शालिकणा यया ॥ ७६ 18 ऊचे तया ततस्तात गृह्यन्तां पञ्च ते कणाः । इति श्रुत्वा तदा श्रेष्ठी जनप्रत्यक्षमब्रवीत् ॥ ७७
सर्वस्वस्वामिनी गेहे वधूर्मम भवत्वसौ । अस्या एव समादेशः कर्तव्यः सर्वमानुषैः ॥ ७८ 21 अस्या यः खण्डयत्याज्ञां स्थातव्यं तेन नो गृहे । सर्वैरपि जनैः शीर्षे तद्वचः शेखरीकृतम् ॥
उद्यदानन्दसंदोहमेदुरः स धनः क्रमात् । निश्चिन्तचित्तः सद्धर्मालङ्कर्मीणस्ततो ऽभवत् ॥ ८० एतदाख्यानक शैक्षाः कथितं भवतां मया । सिद्धान्तोदितमेतस्य भावार्थ शृणुताधुना ॥ ८१ यथा राजगृहं लोके मानुषत्वमिदं तथा । यथा धनस्तथाचार्यों विचारचतुराननः ॥ ८२ 24 यथा वध्वस्तथा ज्ञेया विनेयाश्च चतुर्विधाः । पञ्च शालिकणा ये सा ज्ञेया पञ्चमहाव्रती ॥ ८३ यथा स्वजनवर्गो ऽसौ तथा संघश्चतुर्विधः। दानं शालिकणानां यत्तन्महावतरोपणम् ॥ ८४ ।। उझिकेव शालिकणानुज्झेत्पञ्चमहाव्रतीम् । यः स्यादत्र परत्रापि स दुःखौघस्य भाजनम् ॥ ८५ 27 निश्शङ्कमुपभुक्तास्ते यथा भक्षिकया तया । व्रतमाजीविकाहेतोन विधेयं तथा बुधैः ॥ ८६
ररक्ष रक्षिका यद्वत् तच्छालिकणपञ्चकम् । तद्रतिजनै रक्ष्यं तन्महाव्रतपञ्चकम् ॥ ८७ 30 महाव्रतानि संप्राप्य वृद्धिं नेयानि धीमता । रोहिण्या गुरुणा दत्ताः पञ्च शालिकणा यथा ॥ ८८ 30
। इति व्रतदृष्टान्तः। १६) विनयः शासने मूलं विनीतः संयतो भवेत् । विनयाद्विप्रमुक्तस्य कुतो धर्मः कुतस्तपः ॥ ८९ 33 विनीतः श्रियमाप्नोति विनीतस्तूज्वलं यशः । कदापि दुर्विनीतेन नैव स्वार्थः प्रसाध्यते ॥ ९० 33 यतः,
गुणवानपि नाप्नोति नूनं स्तब्धः परां श्रियम् । किंचिन्नम्रः पिबन्नम्भः कुम्भः प्राप्नोति पूर्णताम् ॥ ९१ 36 अपराधतमःस्तोमनिर्मूलनदिनेश्वरः । स्वर्गापवर्गसंसर्गकारणं विनयः सदा ॥ ९२
36 विनयः सर्वथा कार्यः कुलीनेन वपुष्मता । गुरूणां गुणवृद्धानां तथा बालतपस्विनाम् ॥ ९३
गुणेषु विनयः श्लाघ्यस्तेजस्विषु यथा रविः । येन कर्मग्रहाः सर्वे प्रच्छाद्यन्ते निजोदयात् ॥ ९४ 39 विनयात्संपदः सर्वा मेघादिव जलद्धयः। केवलज्ञानलाभश्च विनीतस्येव जायते ॥९५ 39 तथा हि। ___ जम्बूद्वीपाभिधे द्वीपे क्षेत्रे भरतनामनि । क्षमापुरी क्षमारम्या समस्ति स्वस्तिकारिणी ॥९६
1) B वाढकानेके. 5) B नो वा for न वा. 16) P तत्पुरस्तया. 18) P प्राहाथ स जनो. 27) P°कणानुज्झेव पंच'. 31) PB इति व्रतदृष्टांतः ॥ १४२७॥ छ । छ । (Phas the symbol of bhale instead of छ ॥ छ॥) नमः श्री सर्वज्ञाय ॥. 35) P किंचिनिम्नगः, P om. कुम्भः. 36) P निर्मूलनं दि.
भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org