________________
1
3
6
9
-II. § 13 : Verse 66]
18
कुवलयमालाकथा २
सर्वज्ञवाक्यस्य विशुद्धिदस्य योग्यो ऽस्म्यहं यद्यधभाजनो ऽपि । दीक्षां ततो देहि ममेति तेन प्रोक्ते व्रतं तस्य ददौ मुनीन्दुः ॥ ५४ । इति कोपे चण्डसोमकथा ।
१२) गुरुणा श्री धर्मनन्दनेन पुनरप्युक्तम् ।
'दुर्दमो मानमातङ्गो धर्मारामं भनक्ति यः । स्वशक्तिव्यक्तितो यत्नः क्रियतां तस्य रक्षणे ॥ ५५ परित्यजन्नपि क्रोधं मानवो मानवर्जितः । भवेद्भवे यदि श्रेयः श्रिया संश्रियते ततः ॥ ५६ हिताभिलाषी यः स्वस्य तेन मानमहीधरः । भेदनीयः सदाप्युद्यन्मृदुताभिधधारया ॥ ५७ अहंकारो नदीपूर इव पुंसः कुलद्वयम् । भिनत्ति कूलद्वयवत् पद्मोच्छेदनलालसः ॥ ५८ दष्टो दर्पभुजङ्गेन नरश्चैतन्यशून्यधीः । नमस्यति गुरून् कापि पुरतो न स्थितानपि ॥ ५९ मानान्धलोचनो देही चारुमार्ग न पश्यति । अतः संसारकूपान्तर्निपतत्युचितं हि तत् ॥ ६० मातरं पितरं भार्यामपि म्रियमाणामुपेक्षते मानमहागजेन्द्रपरवशः, यथैष पुरुषः ।' राज्ञा 12 परिजल्पितम् । 'भगवन्, अस्यां सभायामनेकलोकाकुलायां सैष पुरुष इति कथं ज्ञायते ।' भणितं 12 श्रीभगवता । ' य एष मम वामस्तवदक्षिणपार्श्वे स्थितः प्रोन्नामितभ्रूयुगः पृथुलवक्षःस्थलो गर्वभरमुकुलितदृष्टिरुत्तप्तकनकवर्णतनुराताम्रलोचन एतेन रूपेण मूर्ती मान इव समागतः । यदेतेनामानमानमूढचेतसा 15 कृतं तदाकर्ण्यताम् । तथा हि,
अस्त्यवन्तीजनपदे नगरी श्रीगरीयसी । विशाला सुमनःशाला विशाला शालशालिता ॥ ६१ सुप्रापं यत्र सिप्रायाः पयः पीयूषसोदरम् । निपीय लोको न सुधापायिनो ऽपि प्रशंसति ॥ ६२ यत्राभ्रंलिहहर्म्याग्रचन्द्रशालासु योषितः । राजन्ते वीक्षितुं लक्ष्मीं स्वर्गवध्व इवागताः ॥ ६३ धनिनां यत्र हर्म्येषु सदनेषु मनीषिणाम् । वर्धते श्री सरस्वत्योर्मिथः प्रीतिर्गतागतैः ॥ ६४ नगर्याः पूर्वोत्तरदिग्विभागे योजनमात्रप्रदेशे कूपपद्राभिधानो ग्रामः । तत्रैकः पूर्वं
तस्या
21 राजवंशप्रसूतो भागधेयपरिहीनः क्षत्रभटो नाम जीर्णठक्कुरः परिवसति । तस्य चैक एव वीरभटाख्यः 21 पुत्रो निजजीवितादव्यधिकवल्लभो ऽस्ति । अन्यदा स तं तनुजं परिगृह्योजयिन्यां प्रद्योतननृपस्य सेवावाकपरो बभूव । दत्तः क्षितिपतिना तस्य स एव कूपपद्रो ग्रामः । कालेन च स क्षत्रभटो ऽनेकसमीप24 संपर्कवैरिवीरवार विदारितावयवो जराजीर्णतया चरणचङ्क्रमणाक्षमस्तमेव पुत्रं वीरभूटं भूपस्यापयित्वा 24 गृह एव स्थितः । तस्यापि शान्तिभटाभिधः सूनुरस्ति । स च क्रमतः क्षितिपस्य सेवां कर्तुं प्रवृत्तः । तस्य स्वभावतः स्तब्धस्यात्यन्तमानिनो यौवन गर्वितस्य प्रद्योतनराशा राजपुत्रवर्गेण च शान्तिभट इति 27 नामधेयस्य मानभट इति नाम विदधे । नरेश्वर, स एष मानभटः ।'
27
* 15
Jain Education International
1
3
For Private & Personal Use Only
2 ) P मुनींद्र : 7 ) PB मृदुताभिदुधारया - 16 ) P सुमनसः शाला. 21 ) P एकवीर भटाख्यः. 27 )P नाभावतस्य B नामानम्य for नामधेयस्य, P B सैष मान 31 ) Padd : & ते before ततः 23 ) P उज्झते. 35 ) B adds पूर्वं द्रव्यं परं मानं before क्रोधाध्मात. 37 ) 0 मागत्य 40 ) B adds on the margin the following (to come after वाहनम् ।) येन तदाश्रित्य रेवातीरे गम्यते । तेन च मानभटेन मानाध्मात मनसापि किमपि दाक्षिण्यं दधता वाहनं सज्जीकृतम् ।
6
9
15
(१३) अन्यदा सदसि सर्वेषु स्वस्वस्थाननिविष्टेषु मानभटः समागमत् । ततः स्वस्वामिनः सचिवपुङ्गववर्गस्य कृतनमस्कारो निजस्थाने राजपुत्रं पुलिन्दाख्यमुपविष्टं दृष्ट्वा प्रोचिवान् । 'भोः पुलिन्द, 30 मदीयमिदमासनस्थानं समुत्तिष्ठ त्वम्' इति । पुलिन्देन भणितम् । 'अहमजानन्नेवेहोपविष्टस्तावत् 30 क्षमस्व ममागः, न पुनरुपविक्ष्ये । ततः 'तव मानभटस्य स्थाने पुलिन्दो निविष्टः' इति वदद्भिरपरैः स उत्तेजितः । तद्यथा ।
33
18
'त्यजन्ति मानिनः सर्वे तृणवज्जीवितं धनम् । उज्झन्ति मानं न क्वापि मान एव महद्धनम् ॥ ६५ 33 लध्वर्कमूलवद्द्रव्यं मानं मन्दरवहरु । त्यजन्ति मानिनः पूर्व परं च न कथंचन ॥ ६६ एतज्जनवचनमाकर्ण्य क्रोधाध्मातहृदयो मानभटो निर्दयः कार्याकार्यमविचार्यानार्य इव स्वमृति36 मवगणय्य कृपाण्या वक्षःस्थले पुलिन्दं जघान । तं निपात्य स च सदसो निःसृत्य पुलिन्दपाक्षिकराजपुत्रेषु 36 पृष्ठिलग्नेष्वपि वेगवत्तरया गत्या स्वग्राममागम्य कृतापराधो भुजङ्गम इव स्ववेश्म प्रविश्य पितुः पुरतो पुरतो यथावृत्तं कथयामास । तन्निशम्य पितृपित्रा जल्पितम् । 'पुत्र, यत्कृतं तत्कृतमेव । अत्र पुनः 39 सांप्रतं सांप्रतं विदेशगमनम्, तदनुप्रवेशो वा । तत्र तदनुप्रवेशो न घटते, तावद्विदेश एव गम्यम् | 39 अन्यथा जीवितव्यं न । ततस्त्वरितमेव वत्स, सज्जीकुरु वाहनम् । तत्रारोप्य सकलमपि गृहसारं
www.jainelibrary.org