________________
* 14
रत्नप्रभसूरिविरचिता
[II.89 : Verse 381 ६९) एतत्संलपत्तदाकर्णितं चण्डसोमेन । अत्रान्तरे स प्रतिभणितस्तया तरुण्या । 'परिज्ञातं मया 1
यत्त्वं दक्षो दाक्षिण्यशिरोमणिस्त्यागी भोगी प्रियंवदः कृतज्ञः, परं प्रकृत्यैव मम पतिश्चण्डः। एतच्च 3 श्रुत्वा चण्डशब्दाकर्णनजाताशङ्केन चिन्तितं चण्डसोमेन । 'नूनं सैषा दुराचारा मम भार्या मामिहागतं परिशायैतेन संकेतितविटेन समं मन्त्रयन्ती मां न पश्यति । ।
युवा प्राह पतिस्ते ऽस्तु चण्डः सोमो ऽथवा यमः । इन्द्रो वाद्य मया सार्ध त्वया संगम्यमेव च ॥ ३८ 6भणितं तरुण्या। 'यद्येवं तव निश्चयस्तद्यावन्मम पतिरिह स्थितः कस्मिन्नपि प्रदेशे प्रेक्षां वीक्षते तावदहं 6 निजगृहं ब्रजामि । पुनस्त्वया मम मार्गलग्नेन समागन्तव्यम्' इति भणित्वा सा तरुणी रङ्गतो निर्गता। चिन्तितं चण्डसोमेन । 'अये, सैवैषा दुष्टप्रकृतिर्येन भणितमेतया मम पतिश्चण्डः।' यावदेतचण्ड9 सोमश्चिन्तयति तावदिदं नट्या गीतम् ।
इष्टं यन्मानुषं यस्य तदन्येन रमेत चेत् । स जाननेवमीालुरादत्ते तस्य जीवितम् ॥ ३९ एवं च निशम्येालुना चण्डसोमेन परिस्फुरदधरेण चिन्तितम् । 'कस्मिन् स दुराचारः सा च 12 दुःशीला व्रजति । अवश्यं तच्छिरो लुनामि ।' इति चिन्तयन् स समुत्थाय क्रोधामातहृदयः स्ववेश्म 12 प्रविश्य बहलतमसाच्छादित भूभागे गृहफलहकस्य पाश्चात्यपक्षे कोटिप्रहरणसजा स्थितः।।
६१०) इतश्च प्रेक्षणे निवृत्ते गृहफलहकद्वारे लघुभ्राता स्वसा च प्रविशन्तौ चण्डसोमो वीक्षांचके । 15 तेन च कोपान्धतमसाच्छादितविवेकचक्षुषाविचार्य परलोकमवगणय्य लोकापवादं परित्यज्य नीति 15 कोटिशस्त्रेण लघुसोदरः स्वसा च निहतौ। द्वावपि धरातले पतितौ । सैषा मम प्रियाप्रियकारिणी सैष
पुरुषो दुःशील इति यावत्तस्य शिरच्छिनीति चिन्तयन् कोटिप्रहरणमुद्गीर्य चण्डसोमः प्रधावितस्ता18 वत्कोटिफलहके रणन्ती लग्ना, तच्छब्दाकर्णनमात्रेणास्य प्रतिबुद्धा भार्या नन्दिनी। भणितं ससंभ्रमया 18
तया। 'हा निर्धर्म, किमेतत्वयाध्यवसितमिति । हतः कनीयान् भ्राता भगिनी च।' एतन्निशम्य ससंभ्रम यावद्विलोकयति तावद्वन्धुभगिनी च मृति प्रापतुः। ततः संजातगुरुपश्चात्तापेन तेन चिन्तितम् । 'हा हा, 21 मया अकार्यं कृतं कोपवशतः।' इति चिरं विलप्य मूर्छानिमीलिताक्षः पृथ्वीपीठे लुलोठ । नन्दिन्यपि 21 'देवरं ननान्दरं च' इति भणित्वास्तोकशोकशङ्खव्यथितहृदया बहुधा रुरोद । ततः क्षणमात्रलब्ध
चैतन्यश्चण्डसोमः 'हा बन्धुरगुणग्रामाभिराम सदाचार, हा श्रीसोमे भगिनि, युवां विना सदाधारमपि 24 निराधारं जगत्समभूत्' इति चिरं विललाप।
24 असावकृत्यकारीत्यद्रष्टव्यवदनो द्विजः। हियेव द्विजराजो ऽस्ताचलात्पतितुमुद्यतः॥४०
तत्तदाकन्दमाकर्ण्य स्त्रीत्वान्मृदुलमानसा। रजनी तारकव्याजादिवाश्रूणि विमुञ्चति ॥ ४१ 7 ततः क्रोधादिवाताम्रस्तमःशत्रु क्षयं नयन् । प्रपातयन् कराँश्चण्डान सूर्यो नृप इवोदितः ॥ ४२
६११) अथ स जल्पितो जनेन भोचण्डसोम, एवं विलापं मा कार्षीः'। ततः स विलपन्नेव हा बान्धव, हा भगिनि', इति निःसृत्य श्मशानभूमौ चिताज्वलनज्वालावलीं कृत्वा प्रवेष्टुं यावच्चण्डसोमः प्रारेमे 30 तावद्रामजने 'गृहीत गृह्णीत द्विजं पतन्तम्' इति वदति चण्डसोमो बलिभिर्नरैकृतः। अथ द्विजैरुक्तः किं 30 प्राणान् वृथा त्यजसि, प्रायश्चित्तं विरचय' । चण्डसोम उवाच । विप्राः, तद्दीयतां मे।'
प्राहैको ऽघमकामेन कृतं तेनैव शुद्ध्यति । परः प्राह जिघांसन्तं निघ्नन्न ब्रह्महा भवेत् ॥ ४३ 33 ऊचे ऽन्यः कुत्कृते पापे क्रोध एवापराध्यति । परो ऽवदद्भवेच्छुद्धो ब्राह्मणानां निवेदिते ॥४४ 33
कश्चिदूचे कृतं पापमज्ञानान्न हि दोषकृत् । प्राहान्यो देहि सर्वस्वं द्विजानां स्वस्य शुद्धये ॥ ४५ मुण्डयित्वा ततो मुण्डतुण्डे भिक्षां भ्रमन् सदा । करपात्री करे बिभ्रद् गच्छ त्रिदशदीर्घिकाम् ॥ ४६ इत्थं मिथो विरुद्धानि श्रुत्वा तेषां वचांस्ययम् । मां चतुर्जानिनं मत्वा तान् विहाय समागमत् ॥ ४७ 36 ततोऽत्र चिन्त्यतां तीर्थस्नानः शुद्धिः कथं भवेत् । जलेनाङ्गमलो याति न लग्नं पापमात्मनि ।। ४८ यदि स्नानात्स्मृतेर्वापि गङ्गा हरति कल्मषम् । जायते जलजन्तूनां तत्कदापि न कल्मषम् ॥ ४९ यदि स्मरणमात्रेण जगत्पूतं भवेदिदम् । अहो तन्मोह एवायं यजलेनात्मशोधनम् ॥ ५० 39 इदं वाक्यं विचारं न सहते हि महात्मनाम् । परं जनेन मूढेन प्रसिद्धिं गमितं परम् ॥ ५१
रागद्वेषविहीनेन यदुक्तं सर्ववेदिना । मनःशुद्ध्या कृतं तद्धि पापप्रक्षालनक्षमम् ॥ ५२ 42 श्रुत्वेति चण्डसोमः स्वं वृत्तान्तं प्राञ्जलिः प्रभुम् । प्रणम्य प्राह सत्यं तद् यदाख्यातं विभो त्वया ॥ ५३ 42
2) 0 परं मम पतिः प्रकृत्यैव चण्डः. 17) PB प्रहरणमुद्र्य. 28) PC भोश्चण्डसोम, B ततः स विलापावलिप्त चेतागृहमथ सन्निःसृत्य. 29) P स्मशान. 30) B बलिभिनी. 40) P om. 2nd परम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org