________________
-II. $ 8 : Verse 37] कुवलयमालाकथा २
* 13 1 मातङ्गस्पर्शने शुद्धिः सुवर्णपयसा नृणाम् । न पुनः कोपचाण्डालसांगत्ये स्यात्कथंचन ॥ २७ 1
नितान्तं स्तिमितं यस्य स्वान्तं शान्तरसाणसा । न कदापि स्फुरेत्तस्य कोपाटोपहुताशनः ॥ २८ 3 जिनाम्बुदसमुद्भूतप्रशमामृतयोगतः । यः क्रोधाग्निं शमयति तस्य धर्मवनं स्थिरम् ॥ २९ 3
यदि क्रोधो भवेन्नैष कदाचन शरीरिणाम् । तदवश्यं कराम्भोजवासिन्यः स्युः शिवश्रियः ॥ ३० अत्यन्तकोपमहातमःप्रसरान्धीकृतस्वान्तो भ्रातरं भगिनीमपि हन्ति, यथायं पुरो निविष्टः पुरुषः।' 6 नृपेणोक्तम् । 'प्रभो, वयं न जानीमः को ऽप्येष पुरुषः, कीदृक्षः, किं चैतेन कृतम्' इति । ततो गुरुणा- 6 भाणि । 'य एष तव वामो मम दक्षिणपार्श्वे स्थितस्त्रिनयनगलगवलकजलाभो गुलाफलरक्तनयनो भ्रकुटीमङ्गभीषणास्यो रोषस्फुरदधरोष्टपुटो दृढकठिननिष्ठुराङ्गो मूर्तिमान् कोप इव संप्राप्तः । एतेन 9 कोपवशवचसा यन्निर्मितं तदाकर्ण्यतामिति ।
६७) अस्ति वसुधावामाक्ष्या एक कण्डलमिवोत्तप्तकनकमयप्राकारगम्भीरपरिखापरिखता काश्री नगरी । तस्याः पूर्वदक्षिणदिग्विभागे त्रिगव्यूतिमात्रे रगडानाम संनिवेशो ऽस्ति । तत्र सुशर्मदेवो 12 द्विजः परिवसति । पत्नी सुशर्मा । तस्य च रुद्रसोमाभिधो ज्येष्ठपुत्रः । तस्य लघुभ्राता सोमदेवः। 12
तयोः स्वसा श्रीसोमा च । स तु रुद्रसोमो बाल्यादेव चण्डश्चपलो ऽसहनो गर्वोद्भुरकन्धरः स्तब्धोऽतिकर्कशवचाः सर्वदा सर्वडिम्भान्निरागसो ऽपि रथ्यासु परिताडयति । तस्य तादृशस्य स्वभावं
भैरेव चण्डसोम इति नाम गुण्यं कृतम्, तावन्नरेश, स एषः । स कियद्भिवासरे-15 रतिक्रान्तैः पित्रा ब्राह्मणकुलबालिकया नन्दिन्या सह पाणं ग्राहितः। तत्र पितरौ कुटुम्बभारमारोप्य
मन्दाकिनीतीर्थयात्राकृते निर्गतौ। चण्डसोमः क्रमेण यौवनश्रियमलंचक्रे । ततः सा नन्दिनी च 18 यद्यप्यखण्डितशीलवता तथापि तां तारुण्यपुण्यावयवरमणीयां वीक्षमाणश्चण्डसोमः स्वमनसि न 18 विश्वसिति । ततो नरनाथ, तस्या उपरि किंचिद्रागमुद्वहतस्तस्य कोऽपि कालो व्यतिचक्राम । अथान्यदा तत्र शरल्लक्ष्मीरवततार ।
अभवन् सर्वतो यस्यां दिशः सर्वा विकस्वराः। कुमुदिन्यः प्रमोदिन्यः सदाकाशा विकासिनः ॥ ३१21 अतुच्छस्वच्छतापात्रमाद्रियेत जनैर्जनः । यस्यामितीव जातानि निर्मलानि जलान्यपि ॥ ३२
यत्र स्वागतमप्रच्छि मरालानामुपेयुषाम् । सरोभिनलिनीगन्धलुब्धालिकुलनिःस्वनैः ॥ ३३ 24 __ सप्तच्छदेषु चिक्रीडुर्विमुच्य करिणां कटान् । मधुपा यत्र नैकत्र स्थायिनो मलिना यतः॥ ३४
यत्र चञ्चलकल्लोलभुजाभिरभिवादनम् । घनात्ययश्रियः प्रीत्या तन्वन्तीव जलाशयाः॥ ३५ ।।
निष्पुण्यानामिव धनं सरितां नीरमत्रुटत् । यत्र धान्यान्यवर्धन्त कार्याणीवार्यचेतसाम् ॥ ३६ 27६८) अन्यदा तत्र ग्रामे नटपेटकमेकं ग्रामानुग्रामं परिभ्रमत् समाजगाम । तेन सर्वोऽपि ग्रामः 27 प्रेक्षावीक्षार्थमभ्यर्थितः। ततस्ते च ग्राम्या रजन्याः प्रथमे यामे व्यतीते प्रशान्ते कलकले मृदङ्गध्वनिमाकर्ण्य गन्तुं प्रवृत्ताः। एष चण्डसोमः 'स्वकलत्रपरित्राणं कथं करोमि' इति व्यचिन्तयत् । 'यदि 30 तावन्नटं द्रष्टुं गच्छामि ततः कथं जायायाः परित्राणम् , यदि वल्लभाया रक्षणं तदा मम न प्रेक्षण- 30
क्षणनिरीक्षणम्, 'इतस्तटी इतो व्याघ्रः' इति न्यायादनल्पविकल्पमालाकुलितमनाः किं रचयामि, भार्यात्मना सह नेतुं न युज्यते, तस्मिन् रङ्गे युवशतसंकुलो ग्रामः । सो ऽपि मम भ्राता तत्र गतो 33 भविष्यति । तावद् यद्भवति तद्भवतु । एतस्याः श्रीसोमाया भगिन्या एतां समर्प्य व्रजामि ।' इति 33 विचार्य समय॑ च कोटिप्रहरणधरश्चण्डसोमः प्रययौ। चिरं तस्मिन्निर्गते भगिन्या भणितम् । 'हले
नन्दिनि, तावन्नटनाट्यवीक्षायै गच्छावः।' नान्दिन्या भणितम् । 'हले श्रीसोमे, किं न जानासि 36 निजसोदरचेष्टितं येनैवं भणसि, न स्वजीवितस्य निर्विण्णास्मि, त्वं पुनर्ययुक्तं तत्कुरु' इति जल्पन्ती 36 स्थिता । श्रीसोमा पुनस्तत्र नाट्यं द्रष्टुं गता। तस्य चण्डसोमस्य तत्र रङ्गे प्रेक्षमाणस्य पृष्ठतः किंचिन्मिथुनं
मन्त्रयितुं प्रवृत्तम् । इति जल्पितं तरुणेन । 'भद्रे, हृदये स्वप्ने ऽपि च त्वं दृश्यसे । अद्य मनोरथशतेन 39 प्रत्यक्षं दृष्टासि।
39 त्वद्वियोगानलज्वालामालाज्वलितविग्रहम् । सांप्रतं सौवसंयोगसुधासारेण सिश्च माम् ॥ ३७
21
2) PB स्तीमितं. 6)0क एष for कोऽप्येष. ll) गव्यूत. 12) Pom. पत्नी सुशर्मा, P B om. च after तस्य, BP लवुद्घता. 15) PB सैषः, Bom. स before कियद्भि. 19) ० कियानपि for कोऽपि. 21) PF विकाशिनः. 24) P सप्तच्छेदेषु. 29) B एष सोमचंडः स्वकलत्र. 30) PB inter न & मम. 36) B निजसहोदर. 40) P माल्य for माला.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org