________________
* 12
रत्नप्रभसूरिविरचिता
[II. $ 4 : Verse 211 भ्रमरैर्गीतमेकान्तमधुरैस्ताण्डवं दलैः । तूर्यत्रिकं वितन्वन्ति द्रुमा देव तवाग्रतः ॥ २१
कुर्वन्तीव द्रुमा देव भवतश्चरणार्चनम् । कुसुमैरसमै गरणितैश्च गुणस्तुतिम् ॥' २२
५) एवं निवेदयन् महामन्त्री परितो बने दृष्टिं व्यापारयन् ध्यायति स्म । 'तावदत्रोद्याने धर्म- 3 नन्दनो विभुर्न वीक्ष्यते, तमेव हृदि धृत्वा मयात्र विभुरानीतो विनाप्यर्थमेव, तन्मन्ये ऽन्यत्र कुत्र वा वनस्पतिकुन्थुपिपीलिकाप्रभृतिबाहुल्यात्प्रासुकत्वं विभाव्य सिन्दूरकुट्टिमतले सशिष्यः स्थितो भगवान् 6 भविष्यति' इति चिन्तयित्वा राजानमवादीत् । 'देव, यत्त्वया कुमारत्वे सिन्दूरकुट्टिमासन्ने ऽशोकतरुरा-6 रोपितः स कुसुमितो न वा, इति न ज्ञायते ।' राज्ञोक्तम् । 'चारूदितं भवता' इति वदन् मन्त्रिणः करं करेण गृहीत्वा गतेन तेन तत्र मुनयो दृष्टाः । केचिद्धर्मध्यानदत्तावधानाः, केचित्प्रतिमापालन9 लालसमानसाः, केचिच्छुद्धसिद्धान्तपठनप्रवीणान्तःकरणाः, केचिद्विविधासनाध्यासीनाश्च । तेषां च 9 मध्यगतं ताराणामिव ताराधिपम्, सागराणामिव क्षीरसागरम, सुराणामिव सुरेश्वरम, चतर्जानिनं
तं महामुनिं वीक्ष्य मनाक् प्रमुदितः क्षितीशः सचिवमुवाच । 'क एते पुरुषाः, कश्चैष नृप इवैषां 12 मध्यगतः' इत्युक्ते वासवसचिवः प्रोवाच । 'देव, तावदयं मुनिपतिर्भवाटव्यां कुतीर्थिककथितकापथ-12 पतितानां जन्तूनां मुक्तिपुरीमार्गोपदेशको भगवान् श्रीधर्मनन्दनाचार्यों देवानामपि वन्द्यपादारविन्दः,
तथास्यैव शिष्या महात्मानो ऽमी मुनयः, तदुपसृत्याचार्यस्य समीपे धर्माधर्म प्रष्टुमुचितम् ।' 'अथ 15 भवत्वेवम्' इति वदन् मन्त्रिकरतले लग्न एव भूपतिर्गुरुसमीपमुपेयिवान् । अथ मन्त्री स्तुतिपूर्व प्रदत्त-15
प्रदक्षिणात्रयः सुगुरुचरणाम्भोजं ननाम तथा वसुधाधिपो ऽपि। भगवाँश्च धर्मलामं दत्त्वा 'स्वागतं
भवताम् , उपाविशत' इत्युवाच । ततो 'यदादिशति भगवान्' इति वदनृपस्तत्रैव कुट्टिमतले न्यविक्षत, 18 मन्त्री च गुरुजनमनुज्ञाप्य, तदा चान्ये ऽपि नृपमार्गमनुवर्तमानाः पान्थकार्पटिकादयो नत्वा भगवन्त-18 मुपविष्टाः। भगवता सुखदुःखे जानतापि लोकाचार इति शरीरकुशलतावृत्तान्तं ते पृष्टाः । तैरुक्तम् । 'सममद्य तत्रभवद्भवदर्शनेन' इति । ततश्च चिन्तितमवनीपेन । 'भगवतोऽमुष्यासामान्य रूपम् , अगण्यं 21 लावण्यम्, अमेया कान्तिः, अपूर्वकरुणारसा प्रशस्तः, तथा चायं सेतुबन्धः संसारसिन्धोः,21
परशुस्तृष्णालतावनस्य, अशनिर्मानशिलोच्चयस्य, मूलं क्षमापादपस्य, आकरः सर्वविद्यानाम् , कुलमन्दिरमाचाराणाम् , महामन्त्रः क्रोधादिकषायचतुष्टयभुजङ्गमस्य, दिवसकरो मोहान्धकारस्य, दावानलः 24 स्फूर्जदागशाखिनः, अर्गलाबन्धो नरकद्वाराणाम्, कथकः सत्पथानाम्, निधिः सातिशयज्ञा- 24
नमणीनाम् । सर्वथा सर्वगुणालिङ्गितसफलसंप्राप्तमनुष्यजन्मनो ऽस्य किं चैराग्यकारणं बभूव, येन भगवता यौवनलक्ष्मीभाजापि सर्वदा सर्वदुःखसमुच्चयशय्या प्रव्रज्याङ्गीचक्रे तत्पृच्छामि।' इति 27 चिन्तयन् महीपतिर्मुनिना ज्ञानिना स्वयमेव प्रोक्तः। 'चतुर्गतिके ऽपि भवे सुलभं वैराग्यकारणम् । 27 यदन्ये ऽपि विषयसुखास्वादमोहिता जीवाः पापं कुर्वते तदेव ज्ञानिनां वैराग्यहेतुः। तत्र नरकगतो तावत्रिविधा विबाधा, क्षेत्रजा ऽन्योन्यमुदीरिता परमाधार्मिकसुरकृता च । ततस्तदुःखानि वर्षकोट्या30 प्याख्यातुं न शक्यन्ते, एवं तिर्यमनुष्यदेवगतिष्वपि । इह लोक एतदेव जिननाथवचनं क्रियमाणं 30 धर्मार्थकामदम्। परत्र च मोक्षपुरुषार्थसाधकम् । ततःप्रथमं श्रावकधर्म समाश्रित्य पश्चाच्छ्रमणधर्मपालने मनो नियोजय' इति । 33६६) अत्रान्तरे प्रस्तावं परिज्ञाय कृताञ्जलिना वासवमहामन्त्रिणा भगवन्तं धर्मनन्दनं मुनिपं 33 नत्वा सविनयमूचे । 'नाथ, य एष त्वयाशेषदुःखनिलयश्चतुर्गतिलक्षणः संसारः प्रणीतः, एतस्य पूर्व किं निमित्तम् , येन जीवा भवे परिभ्रमन्ति ।' श्रीधर्मनन्दनगुरुणा भणितम् । 'भो मन्त्रीश, नरेन्द्र 36 पुरन्दरदत्त' तच्छृणु संसारपरिभ्रमणे जीवस्य यत्कारणं जिनेश्वरैरुक्तम् । तथा च ।
क्रोधो मानश्च माया च लोभश्चाप्यनियन्त्रिताः । अमी कषायाः संसारदुःखसागरहेतवः ॥२३
अन्तर्दहन् गुणग्राममिद्धः क्रोधधनञ्जयः । बहिर्वस्तुपरिप्लोषकृतः पावकतो ऽधिकः ॥ २४ 39 कदाचन सुधीर्दत्ते स्थानं न स्वान्तवेश्मनि । क्रोधस्य दन्दशूकस्य निःशूकस्य जनक्षये ॥ २५ 39
__ केवलं सर्पदष्टस्य प्रतीकारोऽत्र विद्यते । दुर्दान्तक्रोधसर्पण दष्टस्य तु न सर्वथा ॥ २६
36
1) भ्रमरैगीतकंठाद्य शाखामिस्तांडवं दलैः. 3) B परितस्तत्र दृष्टिं. 4) आध्यात्वा for धृत्वा, B मयाऽत्र विहरणीयं विनाप्यर्थमेव. 5) B कुंथुपपीलिका. 6) suggests यस्त्वया for यत्त्वया. 10) P तारागणमिव, P सागराणामिव सुरेश्वरम्. 12) P कुतीर्थिककथितमुवाच । क एते पुरुषाः etc. repeated (as above) ending with कुतीर्थिककथित. 18) मन्त्रीश्वरोऽपि गुरु. 20) PM ततश्चितित. 29) P वर्षकोट्योऽप्यातुं. 33) P भगवं धर्म. 37) cg कषायाः संसारे चत्वारो दुःखहेतवः ।. 39) P दंशशूकस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org