________________
-II. § 4 : Verse 20]
कुवलयमालाकथा २
1
मायासूयाभयोद्वेगविषादाकुलचेतसाम् । त्रिदशत्वे ऽपि सत्त्वानामभिमानभवं सुखम् ॥ १० इत्थं चतुर्गतावत्रासुमता भ्रमता भवे । कर्मनिर्मथनोपायः प्रापि धर्मः कदापि न ॥ ११ 3 कल्पदुं दुर्लभं प्राप्य प्रार्थयेत्स वराटिकाम् । स्वायत्ते मोक्षसौख्ये ऽपि यो भवेद्विषयी नरः ॥ १२ संसारमरुकान्तारसमुत्तारं यदीहसे । सम्यक्त्वं सलिलं चित्तदृतिस्थं तत्सदोह्यताम् ॥ १३ ततः कुमारकुवलयचन्द्र एतस्मिन्नीदृशे ऽसारे संसारे क्रोधमानमायालोभमोहमूढमान सैरात्मभिर्यदनु6 भूतं तत्त्वया तुरगापहरणपर्यन्तमेकमनसा कथ्यमानं निशम्यतामिति । तथा हि,
39
१२) अस्ति समस्तविशङ्कटयज्ञवाट हुताशसमुत्थबहलधूमध्यामलितातुलविपुलनभस्तलः सर्वदेश्लक्ष्मीवक्षःस्थलालंकारतारहारो निखिलदेशान्तरसमागच्छदनेकवस्तुसङ्केतभूभाग इव वत्साख्यो 9 विषयः । यत्र कम्पाङ्ककम्पित पुण्ड्रेक्षुपत्रनिचयशब्द वित्रस्तमिव प्रविशति काननभुवं कुरङ्गयूथम् 1 9 तदीयपूर्ण तरलाक्षिनिरीक्षणेन स्वकीयकान्ता कर्णान्तविश्रान्तलोचनसंस्मृतिपरो लेप्यमय इव दृषन्निर्मितस्तम्भ इव निश्चलः पथि पथिकजनश्चिरं तिष्ठति । तत्र प्रोत्तुङ्गश्टङ्गसंगतसुर मन्दिरोपशोभमाना गम्भीर12 नीरपरिखालंकृतप्राकारा लवणाम्बुधिवज्रवेदिकाकलिता जम्बूद्वीपलक्ष्मीवि, सुरपुरीव सद्वृषाश्रया, 12 अलव पुण्यजनान्विता, लङ्केव कल्याणमयी, कौशाम्बी नाम नगरी समस्ति ।
तस्या एकत्र विलसजगत्रयरमाजुषः । किं ब्रूमो वर्णने यस्या न गीष्पतिरपि क्षमः ॥ १४ 15 तां प्रियप्रणयिनीमिव भुते पुरन्दरपराक्रमः पुरन्दरदत्ताभिधो वसुधाधीशः । यस्तु प्रालेयाचल इव 15 कीर्तिमन्दाकिन्याः, विश्राम विटपीव गुणशकुनानाम्, कल्पपादप इव यथा चिन्तितदत्तवित्तः । अत्यवदातेन जिता हंसाः कंसारिमेचका हरयः । सवितुः सिता बभूवुर्यद्यशसा प्रसरता गगने ॥ १५ 18 तत्रैक एव दोषो ऽस्ति समृद्धे ऽपि गुणश्रिया । यज्जैनवचने सौख्यवृक्षमूले न वासना ॥ १६
18
१३ ) तस्य भूवासवस्य वासवस्येव सुरगुरुश्चतुर्विधबुद्धिनिधानं वासवाभिधः सचिवेश्वरः । स नृपतिः सहोदरमिव सहचरमिव पितरमिव देवतामिव तं मन्त्रिणं मनुते । स मन्त्री कौस्तुभमणिमिव 21 पुरुषोत्तमो दुर्वारवैरिवारण निवारणवारणारितुल्यं श्रीजिनेश्वरप्रणीतं सम्यक्त्वं हृदि धारयति । तस्य 21 मन्त्रिणो वासवस्यान्यदा कृतप्राभातिकावश्यकस्य भगवतामर्हतां महार्हाणामर्हणानिमित्तं जिनायतनं प्रविशतो द्वारदेशे ऽनेकविधप्रभूतपरिमलपरिमिलितमधुकर निनादमनोहरेण पुष्पकरण्डकेन समं बाह्योद्यान24 पालकः स्थावराख्यः समाययौ । तेन तच्चरणयुगं प्रणम्य 'देव, वर्ध्यसे । सकलकामिजनलोचनप्रमोदप्रदः 24 प्राप्तस्तावद्वसन्तावतारः' इति जल्पता पुष्पाण्युपदीकृत्य महामन्त्रिणः करतले सहकारमञ्जरी ततः समर्पिता । अन्यच्च 'तत्रोद्याने चन्द्र इव तारकानिकरेण शिष्यगणेन परिवृतः क्षमारामाललामश्चारित्ररत्नरत्नाकरः 27 सर्वमुनिशिरोरत्नं निहतदुर्जेयकपायसंचयः सद्धर्मनन्दनः श्रीधर्मनन्दनो नाम यतीश्वरः समवातरत्' 127 १४ ) तदाकर्ण्य मन्त्रिणा भ्रुकुटीभङ्गभीमाननेन 'हा अनार्य' इति वदता सहकारमञ्जरीं निजसहचरहस्ते समय साक्षेपमिति जल्पितम् । 'रे रे दुराचार विवेकविकल स्थावरक, प्रथमं प्रधानं सादरं 30 वसन्तं कथयसि पश्चाद् धर्मनन्दनाचार्यम् ।
30
क्व वल्मीकः क्व वा मेरुः क्वालसः क्व च नागराट्। क्व वसन्तः क्व भगवान् सूरिः श्रीधर्मनन्दनः ॥ १७ ऋतुराट् तनुते चित्तं कामार्तं स च साधुराट् । तदेव विपरीतं तु वीक्ष्यतामन्तरं द्वयोः ॥ १८
33 तद्गच्छतस्यात्मनो दुर्बुद्धिविलसितस्य फलं भुङ्क्ष्व' इति । 'रे प्रतीहार,' अमुष्य वनरक्षकस्य केदाराणां 33 लक्षा स्वरितं दापय, येन तत्कर्षणायासविवशः पुनरपीदृशं निर्विवेकं न वदति' इत्युक्त्वा मन्त्री विहितदेवतार्चनः प्राप्य राजसौधं तामेव मञ्जरीं नृपतिकरतलसंगिनीं चक्रे । राज्ञा भणितम् । 'किं 36 बहिरुद्याने पुष्पकालो ऽवततार ।' ततो मन्त्रिणा जल्पितम् । 'वसन्तलक्ष्मीवीक्षायै देवपादमवधार- 36 यस्वेति ।' इति श्रुत्वा सुरेश्वर इव चतुर्दन्तं नृपतिरुत्तुङ्गं मतङ्गजमारुह्य चतुरङ्गबलेन वनावनीमीयिवान् । मन्त्री नृपं प्रोवाच । 'देव, अवधार्यताम् ।
4 ) B सम्यक्त्वसलिलं. 7) B विसंकट परिमिलित 25 ) P adds हार and B 33) B दुर्बुद्धे बुद्धिविलसितस्य. 35 ) P राज्ञसौधं
17 ) P हारयः for हरयः. 22 ) P महार्हाणानिमित्तं. adds हारि ( but later scored ) before मझरी 37 ) P रुत्तंगं मतङ्ग
Jain Education International
* 11
39
अमन्दानन्दसंदोहस्फुरन्मधुकरस्वरैः । स्थलाम्भोजानि ते सौवागतिकत्वं वदन्ति हि ॥ १९ अमी वृक्षा निरीक्ष्यन्ते नम्राः फलकदम्बकैः । त्वय्यागच्छति भूनाथे कः कुर्यान नतिं क्षितौ ॥ २०
1
39 ) P अमंद मंदसंदोह B अमंदामोदसंदोह
For Private & Personal Use Only
3
23 ) P परिमलित B मिलित for 29 ) PB मञ्जरी for 'मअरी.
6
.
www.jainelibrary.org