________________
* 10
रत्नप्रभसूरिविरचिता [I. $ 18 : Verse 611 पुनरेतत्, कोऽपि मम गोत्रं नाम च जानाति । अथवा कोऽप्येष दिव्यो मम शुभायतये दक्षिणाशामि- 1
मुखं मां प्रेरयति निष्कारणकरुणापरत्वेन । अतीन्द्रियज्ञानगोचरतया चालङ्घनीयवचनाः किल देवा 3 मुनयश्च भवन्ति ।' इति ध्यात्वा दक्षिणाभिमुखं गच्छन् गव्यूतिमतिक्रम्य कुमारोऽशेषान् दिग्विभागान 3 यावद्विलोकयति तावदग्रतो ऽनेकपर्वतपादपश्वापदलतागुल्मगहनां महाविन्ध्याटवीं ददर्श। या च पाण्डवसेनेवार्जुनालंकृता, श्रीरिव महागजेन्द्रसनाथा, महापुरीव तुङ्गशालकलिता । चिन्तितं कुमारेण । 6 'अवश्यं वशीकृतेन्द्रियग्रामः को ऽप्यत्र महर्षिर्महात्मा दिव्यज्ञानावलोकिताखिलपदार्थसार्थः परिव. 6
सति । यत्तस्य भगवत उपशमवतः प्रभावेन विरुद्धानामपि जन्तूनां परस्परमकृत्रिमं प्रेम संजातम् ।' एतच्चेतसि चिन्तयन् कुमारः कुवलयचन्द्रो यावत्किंचिद्भूभागमुपसर्पति तावदनतिदूरे ऽतिस्निग्धबह
विराजमान बहद्विजकृतकोलाहलमसंख्यशाखासंकुलं वटपादपमपश्यत् । तं वीक्ष्य तामेव 9 दिशं प्रति चलितोऽचलापतिपुत्रः, क्रमेण च स वटवृक्षतलमलंचकार । ततो यावत्तत्र कुमारोऽस्ति
तावत्तस्य तपोनियमशोषिताङ्गस्तेजसा ज्वलन्निव, मूर्तिमानिव धर्मः, उपशमरसराजधानीव, निवास 12 इव चारित्रलक्ष्म्याः , केलिवनमिव सौम्यतायाः, मुनिः कोऽपि महात्मा दिव्यपुरुषमृगेन्द्रयोर्मध्य-12 स्थितश्चक्षुष्पथमायातः। ततस्तेन कुमारेण चिन्तितम् । 'यदिमं साधुं सकलत्रैलोक्यवन्दनीयचरणारविन्दयुगलं प्रणिपत्य स्वस्याश्वापहारं पृच्छामि। केन हेतुनाहमपहृतः, को वैष तुरङ्गः।' इति चिन्तयन् 15 संप्राप्तः पृथुलशिलापट्टस्थितस्य महर्षेः संनिकर्षम् । मुनिना प्रोक्तम् । 'भो शशिवंशविभूषण कुवलय-15
चन्द्रकुमार, स्वागतं तव । वत्स, आगच्छ' इति । अथ तेन स्वनामगोत्रकीर्तनविस्मितमानसेन महता विनयेन प्रणतं मुनिपतेः क्रमकमलयुगलम् । भगवता सकलभवभयहारिणा सिद्धिसुखकारिणा धर्म18 लाभाशीर्वाद लम्भितः कुमारः। ततो मुनिसमीपस्थदिव्यपुरुषेण प्रसारितः ससंभ्रमं सुरपादपकि. 18 सलयकोमलो माणिक्यकटकाभरणभूषितो वामेतरः करः। ततो नृपतनुजेन करद्वयेन तस्य पाणितलं गृहीत्वेषद्विनतोत्तमाङ्गेन कृता प्रणतिः। मृगेन्द्रेण च बहलशिथिलकेसरधारिणा उद्वेल्लदीर्धतरला. 21 लेन प्रशान्तश्रवणद्वयेन स्तोकमुकुलिताशेणानुमानितो राजतनयः । कुमारेण हर्षवशविकसन्मुदितान्त-21 __ रस्नेहया स्निग्धधवलया दृशा हरिददृशे । उपविष्टश्च नातिदूरे मुनिपस्य । भगवता निगदितम् । __'कुमार, त्वयेति चिन्तितम् । पृच्छाम्यहं साधुममुं कृतो मे केनापहारः क इवात्र हेतुः।
24 को वायमश्वस्तदिदं निवेद्यमान मया विस्तरतः शृणु त्वम् ॥' ६१ इति श्रीपरमानन्दसूरिशिष्यश्रीरत्नप्रभसूरिविरचिते कुवलयमालाकथासंक्षेपे श्रीप्रद्युम्नसूरिशोधिते 27 कुवलयचन्द्रोत्पत्तितुरगापहारसाधुदर्शनकीर्तनो नाम प्रथमः प्रस्तावः ॥१॥
[अथ द्वितीयः प्रस्तावः] ६१) ततश्च दन्तद्युतिभिर्मुनीन्द्रस्तमासमूहं विदधद्दविष्ठम् । 30 उवाच तत्संशयभेददम्भात् तद्बोधनार्थ वचनं सुधाभम् ॥ १
30 जीवितं यौवनं लक्ष्मीलावण्यं प्रियसंगमः । सर्व चलाचलं लोके कुशाग्रजलबिन्दुवत् ॥२ दुहृदः सुहृदो ऽपि स्युः सुहृदो ऽप्यसुहृत्तमाः। मनीषी तेषु सर्वेषु ममतां कः करोति त एक एव भवेजीवः सुखी दुःखी च जायते । एक एवानुते मृत्यु शिवं यात्येक एव हि ॥४ 33 अय॑ते कर्मणा राज्यं हार्यते ऽपि च कर्मणा । विद्वान् विना न को ऽप्यस्ति कर्मणो हन्ति मर्म यः॥५ अभाग्यादर्जितापि श्रीः क्षयं याति क्षणादपि । घनाघना घनालीव दुर्दान्तमरुता हता॥६ अविषह्याणि सह्यन्ते नरके ऽत्र शरीरिभिः । दुःखान्युद्धषितं देहं येषां श्रवणतो भवेत् ॥७ कशापाशाङ्कुशादीनामाबाधाः स्वस्वकर्मणा । सहन्ते नित्यशो हन्त तिर्यक्त्वे ऽपि हि देहिनः ॥८ वियोगरोगसंतापभूपकोपादिवेदनाः । भवे भवन्ति भविनां मानवे ऽपि नवा नवाः ॥९
1) 0 उपशमप्रभावेन. 9) PB किशलय. 10) P inter. स & च. ll) og चारित्रलक्ष्मीनिवासभिव for निवास इव चारित्रलक्ष्म्याः . 12) P केवलीवनमिव B केलीवन. 14) P स्वस्याऽपहारं, cg इति विचिन्त्य संप्राप्तः पृथुलशिलातलस्थस्य महर्षेः समीपम् ।. 16) P अथ तेन नामगोत्रः की. 18) B कुमारः । तेन दिव्यपुरुषेण. 27) PB कीर्तननाम. 29) PB add ओं अहं ।। before ततश्च etc., B 05 °र्मुनीन्दुस्तमः . 30) PB तच्छंशय. 32) P सुहृदो for दुहृदः. 33) cg. भवे जीवः. 34) B cg सिद्धान् for विद्वान्.
36
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org