________________
* 16
रत्नप्रभसूरिविरचिता
[ II. § 13 : Verse 67 -
1 रेवातीरं प्रति प्रेषितौ क्षत्रभटवीरभटौ । परं स्वयं व्याघुट्य मानभटः कतिभिरपि स्वपुरुषैः परिवृतः 1 पित्रा वार्यमाणो ऽपि पौरुषाभिमानितया स्थितः ।
3
'द्विधापि लाभः संग्रामे शूरो मृतिमवैति चेत् । स्वर्गशर्माथवा जीवेत्ततः श्रेयः श्रियः पदम् ॥ ६७ 3 इति यावच्चिन्तयन्नस्ति तावत्तत्र पुलिन्दस्य बलं प्राप्तमेव । ततस्तत्र तयोर्युद्धं प्रवृत्तं, मानभटेन मानवाहारूढेन कर्षितखङ्गरत्नेन तद्वलं सकलमप्यभञ्जि । ततः स गुरुप्रहारार्तो निर्व्यूढपराक्रमः स्वपुरुषैः 6 सह पितुः पथि गच्छतो मिलितः । अथ तौ क्रमेण यान्तौ नर्मदोपकण्ठे पर्यन्तग्राममेकमाश्रित्य दुर्गमं 6 तस्थतुः । सो ऽपि मानभटः कियद्भिर्दिनै रूढव्रणः संजज्ञे ।
$ १४ ) तत्र तयोस्तस्थुषोः कियानपि कालो व्यतिचक्राम ।
9
12
15
१५) अथ स मानभटो ग्रामतरुणनरैः सह दोलायामधिरूढवान् । ग्रामजनेनोदितं 'यो यस्य 15 हृदयंगमस्तस्य तेन नाम गेयमेव ।' प्रतिपन्नं ग्राम्यपुरुषैः । एवं भणिते निजनिजप्रियाणां पुरस्तरुण पुरुषवर्गों गीतं गातुं प्रारेभे । ततः को ऽपि गौराङ्गीं कोऽपि श्यामलाङ्ग को ऽपि तन्वङ्गीं को ऽपि नीलोत्पलाक्षीं 18 गायति । ततो दोलाधिरूढेन मानभटेन निजा जाया गौराज्यपि श्यामाङ्गीनामोच्चारेण गीता । एवं च श्यामाया 18 नाम गीयमानं श्रुत्वा तस्य प्रिया गौराङ्गी समधिकं चुकोप । ततो ऽपराभिर्युवतिभिः सा हसितेति । 'सखि, तव रूपमप्रमाणं सौभाग्यभङ्गी च यत्तव पतिरन्यायाः श्यामाझ्या मनोवल्लभाया नामोत्कीर्तनमातनोति ।' 21 ततः सा सौभाग्यवती गौराङ्गी निक्षिप्तहृदयशल्येव क्षणं चिन्तयामास । 'अहो, मम प्रियेण सखीजन-21 स्यापि पुरतो मानो ऽपि न रक्षितः । अहो, अस्य निर्दाक्षिण्यम् । अहो, निर्लज्जता । अहो, निःस्नेहता | येन प्रतिपक्षगोत्रग्रहणं कुर्वता महद्दुःखं प्रापितास्मि ततो ममापमानितसौभाग्यलक्ष्म्या न समीचीनं 24 प्राणितम्' इति विचिन्त्य सा गौराङ्गी महिलावृन्दस्य मध्यान्निर्गमनोपायमिच्छति, परं न तद्दृष्टिवञ्च - 24 नावसरं प्राप्नोति । इतश्च,
27
तत्रान्यदा वसन्तीर्वनावन्यामवातरत् । सपल्लवश्रियो ऽभूवन् यस्याः संगान्महीरुहः ॥ ६८ अशोका अपि कुर्वन्ति सशोका विरहिस्त्रियः । स्मरन्त इव चित्तान्तस्तत्तत्पादतलाहतीः ॥ ६९ अङ्ग .su हि यत्संगाद्धन्त हन्ति वियोगिनः । पुष्पश्रियैव सर्वत्र तत्र मित्रबलं महत् ॥ ७० किल माध्वीकगण्डूषोक्षितेन भृशरोषितः । स्त्रैणं विरहितं हन्ति केशरः केशरश्रिया ॥ ७१ पलाशास्तु पलाशाढ्याः पलाशा इव रेजिरे । वियोगाक्रान्तनारीणामरीणाः प्राणितच्छिदे ॥ ७२ कङ्केल्लिशाखिनां शाखा नवपल्लववेल्लनैः । अञ्चलोत्तारणानीव पुष्पकालस्य तन्वते ॥ ७३
30
स्वप्रियाद्गोत्रस्खलनश्रुतिसंतप्तचेतसः । तस्या दुःखमिव प्रेक्ष्य द्वीपमन्यं रविर्ययौ ॥ ७४ कमलानि परित्यज्य मधुपाः कुमुदावलिम् । भेजुः प्रायेण नैकत्र मधुपानां रतिर्भवेत् ॥ ७५ अस्तं गते दिनस्यान्तात् खगे विश्वप्रकाशके । क्रोशन्ति स्म खगानामसौहृदादिव दुःखिता ॥ ७६ पर्यपूरि तथा विश्वमपि विश्वं तमोभरैः । यथा न लक्ष्यते लोकैस्तदा पाणिर्निजो ऽपि हि ॥ ७७ सर्वा अपि क्षणादेव ग्रस्यन्ते तमसा दिशः । इनाद्विना सपत्नेन को नाम न हि दूयते ॥ ७८ अभूतमोमयं भूमितलं निखिलमप्यथ । राज्यं तमसि कुर्वाणे यथा राजा तथा प्रजा ॥ ७९
जलं न स्थलं नोच्चं न नीचं नयनाध्वनि । न समं नासमं सर्व तमसैकीकृतं जगत् ॥ ८० 33 तत ईदृक्षे समये सा युवतिः सार्थमध्यतः कथंचिन्निर्गत्य मरणोपायं चिन्तयन्ती गृहमाजगाम । तत्र 33 साश्वश्वा पृष्टा 'वत्से, कुत्र ते पतिः । भणितं तया । एष आगत एव मम पृष्ठे लग्नः' इति वदन्ती सावशा वासवेश्म प्रविवेश । ततो ऽसावतिगुरुदुःसहप्रतिपक्ष गोत्रवज्रप्रहारदलितेव जजल्पेदम् ।
'आकर्णयत भो लोकपालका नीतिपालकाः । विना प्रियं निजं नान्यो मया चित्ते विचिन्तितः ॥ ८१36 परं न कृतमेतेन वरं प्राणप्रियेण यत् । यदस्म्यन्तर्वयस्यानामपमानपदं कृता ॥ ८२ इत्युदीर्य तयात्यन्तकोपया कण्ठकन्दले । अक्षेपि पाशकः प्राणान् विधृत्य तृणवद्द्रुतम् ॥ ८३
39
१६ ) इतश्च स मानभटस्तां रमणीगणमध्यस्थामप्रेक्षमाणो जाताशङ्कः स्वभवनमाजग्मिवान् । 39 न मातुः पार्श्वे पृष्टं यद्भवद्वधूः समागता किं वा नेति' । मात्रा जल्पितम् । 'यदत्र समागत्य वासभवने प्रविष्टा' इति समाकर्ण्य मानभटस्तत्रागम्य त्वरितमेव पाशं तस्याश्चिच्छेद । अथो सा जलेन संसिच्यमाना 42 क्षणेन स्वस्थचित्ता समभवत् । भणितमनेन । 'प्रिये, किं केनापराद्धं कथं कुपिता, किमिदं त्वया निर्नि - 42
36
9
12
Jain Education International
For Private & Personal Use Only
6 ) com.] पर्यन्त 12 ) P माध्वीगण्डू 26 ) P c omit line स्वप्रिया etc. to चेतसः, Pom. तस्या, B अस्या for तस्या. 31) PB प्रजाः- 33 > c ईदृशे. 36 ) P चिंतेऽतिचिंतित : B चित्तेपि चिंतित : 39 ) P B स्वभुवन 40 ) PB वासभुवने. 41 ) 0 'स्तत्रागत्य, P जलजेन.
27
30
www.jainelibrary.org