________________
*
3
-I. $5 : Verse 2011
कुवलयमालाकथा १ 1६३) तथाहि । जम्बूद्वीपे द्वीपे धर्मवारणसधर्मणि षट्खण्डभरतक्षेत्रस्य दक्षिणार्धे मध्यमदेशा- 1
वनीमौलिमण्डनमणिर्विनीता नाम नगरी । या महापुरुषनाभिजन्मनो जिनेश्वरस्य समेतवासवकृत3 राज्याभिषेकानन्तरं संप्राप्तनलिनीदलनिक्षिप्तवारिव्यापृतकरमिथुनकपर्यस्तचरणयुगलाभिषेकदर्शनस- 3 हर्षहरिप्रजल्पितसाधविनीतपरुषाङ्किता विनीतेति प्रसिद्धा तदाभवत । यत्र च शक्रः स्वयं प्रमादितचेता भक्तिभरनिभृतो वासनावासितान्तःकरणो ऽनन्तमहिमामेयगाङ्गेयच्छायकायश्रीनाभेयस्य समुच्छ्रितम6 पनीतहृदयावसादं प्रासादं कारयांचकार। या चानन्तप्रवरसुरभुवननिवहाम्रध्वजाञ्चलैः करैरिव मत्सदृशी 6 पुरी नापरास्ति [इति] निवेदयतीव । यत्र शुभ्रशरदद्मविभ्रमधारिणि स्फुटस्फाटिकमयान्यभ्रंलिहाग्राणि हाणि सुरपथपथसंचरिष्णोरुष्णांशोरपि विरचयन्ति स्यन्दनस्खलनम् । यत्र द्विमुखो मृदङ्गः, तीक्ष्णो 9 मण्डलायः, भ्रमणशीलो मधुकरः, सकलङ्कश्चन्द्रः, प्रवासी राजहंसः, चित्रलो मयूरः, अविनयी बालः, 9 चपलः प्लवगः, परोपतापी ज्वलन एव न पुनर्जनः । यत्र च स्पर्श एव प्रस्तरः, पीयूषमेव जलम् , छायाद्रुम एव द्रुमः।
वर्ण्यते सा कथं देवैः किल शक्रनिदेशतः । या श्रीमन्नाभिपुत्रस्य निवासार्थ विनिर्ममे ॥ १४ 12 यां वीक्ष्य पथिका नैककौतुकानां निकेतनम् । प्रवासालापवैधुर्य स्वप्रियाणां विसस्मरुः ॥ १५
तदस्त नास्ति यत्तत्र प्राप्यते प्राणिभिः सखम। यत्कथास्वपिवतेत तत्सर्वमपि वीक्ष्यते ॥ १६ 15 यत्र वक्राङ्गता हंसे मत्स्ये च स्वकुलक्षयः। अरिष्टं सूतिकागेहे जने नैव कदाचन ॥ १७ 15
राजन्ते यत्र कासारा नराश्च कमलाश्रिताः। सद्वृत्तशालिनः स्वच्छाः सच्छाया द्विजभूषिताः॥१८ ।
यन्मृगाक्षीमुखाम्भोजलावण्येन विनिर्जिता । तपस्यतीव त्रपया सरोजालिः सरोजले ॥ १९ 18 अनन्तवैभवोपेतनिकेतोन्नतकैतनैः । छन्नायां यत्र मार्तण्डमण्डलं न दृशां पथि ॥ २०
18 ४) तत्र दृढवर्मा नाम राजा। यः सरलो दाक्षिण्यनिधिर्दानशौण्डो दयालुः शरणागतवत्सलः प्रियंवदः [च] । यस्तु दौर्गत्यशीतसंतापितानां दहनः, न पुनर्दहनः; सुजनवदनकमलाकराणां तपनः, 21 न पुनस्तपनः; घनसमयः स्वजनकदम्बानाम् , शरदागमः प्रणयिजनकुमुदवनस्य, हेमन्तः प्रतिपक्षलक्ष-21 कामिनीकमलिनीनाम्,शिशिरकालः सौधयुवतीजनकुन्दलतानाम्, सुरभिर्मित्रकाननानाम् , ग्रीष्म शत्रु
जलाशयानाम् , कृतयुगावतारो निजक्षितिमण्डले, कलिकालो चैरिनरेन्द्रराज्येषु, संतुष्टः स्वकलत्रेषु, न 24 पुनः कीर्तिषुः लुब्धो गुणग्रामेषु, न पुनरर्थेषुः गृद्धः सुभाषितेषु, न पुनरकार्येषु; सुशिक्षितः कलासु, न 24 पुनरलीककपटचाटुवचनेषु । तस्य करालकरवालधाराविदारितवैरिवारणकुम्भस्थलीगलितमुक्ताफलवि
भषिताखिलक्षितितलस्य सर्वत्रास्खलितप्रसृतनिस्सीमप्रतापतपनशोषिताशेषविपक्षलक्षकीर्तिसरसीवि27 सरस्य शरच्चन्द्रचन्द्रिकावदातगुणसंघातस्य निरवधिसौभाग्यलक्ष्मीकटाक्षलहरीलक्षितसाभिलाषवपुर्वै-27 भवस्य नम्रानेकनरेश्वरशिरःश्रेणिमणिमुकुटतटोद्भवप्रभाजालपिञ्जरितपादारविन्दस्य प्रतापाकान्तदिक्च
क्रवालप्रान्तविश्रान्तशासनस्य मधुमथनस्येव कमला, कुमुदवन्धोरिव कौमुदी, निरुपमरूपतिरस्कृतसुर30 सुन्दरीसार्था अनन्यसामान्यपुण्यलावण्योपचिता अविकल कलाकलापकलिता सदा सद्धर्मध्यानदत्ता-30 वधाना सर्वान्तःपुरप्रधाना समग्रगुणग्रामाभिरामा प्रियङ्गुश्यामा स्वयंवरपरिणीता कान्ता कान्ता
बभूव । अथ तस्य तया साकं नाकेश्वरस्येव शच्या विषयसुखमनुभवतः को ऽपि कालो व्यतिचक्राम। 33_ ५) अन्यदा चाभ्यन्तरसभासीनस्य तस्य भूपस्य कतिपयमन्त्रिजनपरिवृतस्य स्नेहवशप्रियाप्रति- 33 ष्ठितवामपार्श्वस्य बाहुलतावलम्बितवेत्रलता प्रतीहारी समाययौ । तया विनतया भूपतेः प
युग्मभक्त्या विज्ञप्तम् । 'देव, एष शबरसंज्ञसेनापतिपुत्रः सुषेणाख्यस्तदा देवस्यैवाज्ञया मालवनरेन्द्र36 विजयार्थ ययौ स सांप्रतं द्वारि स्वामिनश्चरणाम्बुजदर्शनमभिलषन्नस्ति' । राज्ञोक्तं 'प्रविशतु' इति । 'यदा-36
ज्ञापयति देवस्तत्प्रमाणम्' [इति वदन्त्या तया प्रवेशितः सेनानीः । स च नृपं विलोक्य किंचिद्भूभागमुपसर्प्य ननाम । राज्ञापि 'आसनमासनम्' इति जल्पता दक्षिणकरतलेनोत्तमाङ्ग परिस्पृश्य संमानितः। 39 ततो विरचितदेवीप्रणामः स सकलसामवायकनायकगणानतिदूरे यथोचितविष्टरे निषसाद । अथ 39 पृथ्वीभृता तमासनासीनं सुषेणं निरीक्ष्य हृदयाभ्यन्तरप्रवर्तितप्रमोदामृतपूरितनिस्यन्दबिन्दुसंदोहमिव
12) P निर्देशतः 13) पथिकानेक. 16) P स्वच्छाया 19) P C दृढधर्मा. 20) P दहनो न, P तपनो न. 23) P कलिकाले. 24) P लब्धो for लुब्धो. 28) P तटोद्भटप्राभा. 30) P अविकलाकलंककलाप. 31) c inter. स्वयंवरपरिणीता & प्रियङ्गुश्यामा. 33) og वृतस्य सप्रियस्य बाहु. 34) ० प्रतिहारी. 35) P शबरसंज्ञः- 36) P द्वारिगौ स्वामिन'. 39) P प्रणामसकल. 40) Pom. पूरित, ogन्तरे प्रमोदामृतपूरितेन हर्षाश्रूणि विमुञ्चता सुषेण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org