________________
* 2 रत्नप्रभसूरिविरचिता
[I. 2 : Verse 111६२) गतिचतुष्टयसंभूतप्रभूतदुष्कृतमयापारसंसारसागरे परिभ्रमता जन्तुना महता कष्टेन मनुष्य. 1
भवः प्राप्यते। तत्रापि दुर्लभप्राप्तपुरुषत्वेन सत्पुरुषेण पुरुषार्थेष्वादरः कर्तव्यः। ते पुनस्त्रिरूपाः। धर्मो ऽर्थः 3 कामः । केषांचिन्मोक्षश्चेति । एतैर्विरहितस्य पुरुषस्य महदर्शनाभिरामस्यापि केवलं निष्फलं जन्मेति। 3 यतस्तेषु च विशेषत एव धर्मः श्रेयस्तरः। स पुनस्तावद्बहुविधो लोकप्रसिद्धश्च । सर्वेषां मणीनामिव कौस्तुभः, कुञ्जराणामिव सुरगजः, सागराणामिव क्षीरसागरः, नृणामिव चक्रवर्ती, शाखिनामिव 6 कल्पशाखी, शैलानामिव सुमेरुः, सुराणामिव देवेन्द्रः, तेषां धर्माणामुपरि विराजते जिनेन्द्रप्रणीतो 6 धर्मः। स च चतुर्विधो दानशीलतपोभावनाभेदैः। तत्र प्रथममेव प्रथमतीर्थपेन प्रथितपृथुमहिना धनसार्थवाहभवे व्रतिभ्यः प्राज्यमाज्यं ददता रोपितो दानधर्मः । ततः सिद्धगन्धर्वादीनां प्रत्यक्षं 9 प्रतिज्ञां समाश्रयता भगवता सर्व मम पापमकरणीयमिति प्रकटीकृतः शीलधर्मः। वर्षोपवासस्थितेन 9 प्रकाशितो लोके तपोधर्मः। तथैकान्ताशरणत्वकर्मवर्गणाबन्धमोक्षनारकतिर्यग्गतिनरामरगमनागमन
दुःखसुखधर्मशुक्लध्यानादिभावनां भावयता भगवता निवेदितो भावनाधर्मः। ततोऽस्मादृशस्तादृशैर्दा12 नादिभिस्त्रिभिरत एव परित्यक्ताः। यतः सत्त्वसंहननवर्जिताः। तस्मादेष संवेगकारको भावनाधर्म: 12 सुखकरणीय इति । यतः सदा सत्पुरुषालीकदोषप्रवृत्तिपराः प्रमादपरवशचेतसो दुर्जनपार्श्ववर्तिनः
परमर्ममार्गानुसारिणस्तिष्ठामः, ततः श्रीमजिनेन्द्रश्रमणपुङ्गवसत्पुरुषगुणग्रामाभिरामोत्कीर्तनेन सफली15 क्रियते जन्मेति । अन्यच्च, ये च पूर्व पादलिप्त-शातवाहन-षट्कर्णक-विमलाङ्क-देवगुप्त बन्दिक-प्रभञ्जन-15
श्रीहरिभद्रसूरि-प्रभृतयो महाकवयो बभूवुः । येषामेकैको ऽपि प्रबन्धो ऽद्यापि सहृदयानां चेतांस्य
नुहरति । ततः कथं तेषां महाकवीनां कवित्वतत्त्वपदवीमनुभवामः । यचूर्णनाभलालाभिर्मदोन्मत्ताः 18 करिणो बध्यन्ते, यदि वा तुच्छगुञ्जाफलैरनुपमानां विद्रुमाणां शोभा प्राप्यते, यदि वा काचशक- 18
लैर्वर्यवैडूर्यमणिप्रभा प्रकाश्यते, यदि वा भुजाभ्यामुभाभ्यामम्भोधिस्तीर्यते, यदि वा काश्चनगिरि स्तुलया तोल्यते, ततश्चतुरचेतसां चमत्कारिणी कथा मादृशैरपि समुद्भीर्यते । परमियं तु न कवि21 त्वमदेन, न च शब्दशास्त्रप्रावीण्येन, न च साहित्यसौहित्येन, न च कर्कशतर्ककौशलेन, किंत्वात्मनो 21 विनोदाय। सा च पञ्चधा सकल-खण्ड-उल्लाप-परिहास-चराख्यादिभिः कथाभिः । एताः कथाः
सर्वा अपि प्रसिद्धाः । एतासां लक्षणधरा संकीर्णकथा ज्ञातव्या । अथ संकीर्णकथैवोच्यते । सापि 24 त्रिविधा धर्मार्थकामकथाभिः । ततो धर्मकथैव भण्यते । सा च धर्मकथा चतुर्विधा, आक्षेपिणी १ 24 विक्षेपिणी २ संवेगजननी ३ निर्वेदजननी ४ चेति । तत्राक्षेपिणी मनो ऽनुकूला १, विक्षेपिणी मन:प्रतिकूला २, संवेगजननी ज्ञानोत्पत्तिकारणम् ३, निर्वेदजननी वैराग्यजनका ४। ततः प्रस्तुतकथा27 शरीरमुच्यते । तच्च कीदृशम् । सम्यक्त्वलाभगुरुतरं परस्परनियूंढ सुहृत्कार्य निर्वाणगमनसारमेतद् 27 दाक्षिण्यचिह्नेन सूरिणा निर्मितम् । यथा स कथास्वामी कुवलयचन्द्रो जातः। यथा च प्राक्संगतेन देवेन हृतः। यथा च तेन सिंहो देवः साधुश्च दृष्टाः शून्ये कानने । यथा स पूर्वजन्म पञ्चानामपि 30 जनानां मुनिमुखाच्छुश्राव । यथा स सिंहश्च सम्यक्त्वं प्रतिपन्नौ । यथा स्वर्गाच्युताः परे ऽपि स 30 कुमारश्च दुस्तपं तपो विधाय स्वर्गमार्गमगमन् । तत्र विविधान् भोगान् भुक्त्वा यथा पुनर्भरतक्षेत्रे
समुत्पद्यान्योन्यमजानन्तः सन्तः सर्वे ऽपि केवलिना बोधिताः। श्रामण्यं च निरन्तरं प्रपाल्य संवि33 नास्तपस्तीवं निर्माय कर्म विनिर्मथ्य यथा मोक्षलक्ष्मीमीयिवांसः। तत्सर्वमपि प्रसन्नाया हियो देव-33 ताया मुखतः श्रुत्वा कुवलयमालायां कथायां पूर्वकविना निबद्धम् । तथात्राप्यसारवचसापि मया
भण्यमानं महात्मभिः श्रोतव्यम् । यतः, 36 निस्तेजसो ऽपि माहात्म्यं महानर्पयति श्रितः। भर्गसंसर्गतः पश्य पावित्र्यं भस्मनो ऽपि ॥ ११ 36
सर्वथैव परित्याज्यः स दूरादुर्जनः सताम् । द्विधा स्वेनार्पितेनापि यः परं कुरुते द्विधा ॥ १२ तद्विहाय तयोश्चर्चा स्वस्वकार्यविहस्तयोः। अस्याः कथायाः संक्षेपः क्रियते स्वार्थसिद्धये ॥ १३
2) Pom. सत्पुरुषेण, C पुनस्त्रिरूपा धर्मार्थकामाः ।. 3) P रामस्यापि स्येव केवलं. 7) P तपोभावभेदैः. 8) P धनसार्थभवे, P प्राज्यमाद्य. 13) P परवशचेतसे पार्श्वदुर्जदपाश्ववर्तिनः. 15) P षट्कषर्णक. 18) P यदि तुच्छ. 20) P चमरिणी कथा. 28) P प्राग् संगतेन. 34) P तथा अत्रापि असारवचसापि. 36) c explains भर्गसंसर्गतः as शिवसंसर्गादित्यर्थः in a footnote.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org