SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ रत्नप्रभसूरिविरचिता कुवल य मा ला क था [अथ प्रथमः प्रस्तावः] ॥ओं अर्ह॥ ६१) आदित्यवर्ण तमसः परस्तादस्तान्यतेजःप्रचयप्रभावम् । यमेकमाहुः पुरुषं पुराणं परात्मदेवाय नमोऽस्तु तस्मै ॥१ लोकालोकलसद्विचारविदुरा विस्पष्टनिःश्रेयसद्वारः स्फारगुणालयस्त्रिभुवनस्तुत्यांहिपङ्केरुहः। शश्वद्विश्वजनीनधर्मविभवो विस्तीर्णकल्याणभा आद्योऽन्ये ऽपि मुदं जनस्य ददतां श्रीतीर्थराजश्चिरम् ॥२ गोभिर्वितन्वन् कुमुदं विमुद्रं तमःसमूहं परितः क्षिपंश्च । ददातु नेत्रद्वितयप्रमोदं श्रीशान्तितीर्थाधिपतिर्मूगाङ्कः ॥३ शिवाय भूयादपुनर्भवाय शिवाङ्गजन्मा स शिवालयो वः। जन्मप्रभृत्येव न यस्य कस्य ब्रह्मव्रतं विश्रुतमेतदत्र ॥ ४ । अष्टमूर्तिरिव भाति यो विभुनम्रनागमणिराजिबिम्बितः। दर्पकोपचितिविच्युतिक्षमः क्षेममेष तनुतां जिनः स वः॥ ५ । यन्नाममन्त्रवशतोऽपि शरीरभाजां नश्यन्ति सामजघटा इव दुष्कृतौघाः। पादानलाञ्छनमृगेन्द्रभुवा भियेव देवः स वः शिवसुखानि तनोतु वीरः॥६ सा भारती यच्छतु वाञ्छितानि यस्याः प्रसादात्कवयो वयन्ति । प्रवन्धवासः सुगुणाभिरामं न यस्य मूल्यं न च जीर्णता च ॥७ भास्वन्तमत्यन्तमुदा द्विधा तं गुरुं तमस्तोमहरं प्रणौसि । गोसंगतो यस्य भवत्यवंश्यं विकखरं ज्ञानसरोजमेतत् ॥ ८ कुवलयमालेव कथा कुवलयमालाह्वया कुवलये ऽस्मिन् । अर्थप्रपञ्चपरिमलपरिमिलिताभिज्ञरोलम्बा ॥९ दाक्षिण्यचिह्नमुनिपेन विनिर्मिता या प्राक् प्राकृता विबुधमानसराजहंसी। तां संस्कृतेन वचसा रचयामि चम्पू सद्यः प्रसद्य सुधियः प्रविलोकयन्तु ॥ १० The references 1,2), etc. are to the numbers of the lines of the text, put on both the margins. 1) After the symbol of bhale, which looks like Devanagari ६०, P opens thus : अह । श्रीगौतमाय नमः ॥ नमः श्रीह्रीदेवतायै ॥ नमः श्रीबृहत्कुवलयमालाकथाविधायिने श्रीदाक्षिण्यचिह्नसू रिप्रवराय ।। ओं अहं ।। आदित्यवर्ण etc.; B has its opening folios missing; c is made to open thus:॥ अर्ह । न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपञम्यो नमः ॥ श्रीमद्रत्नप्रभसूरिविरचिता कुवलयमालाकथा । आदित्यवर्णं etc. 12) P विभुर्नाम्र (नम्न ?). 13) P विद्युतिक्षमः. 15) P ते वः for देवः. 18)P द्विधातुं गुरुं 19) P नाम for ज्ञान. 22) P प्राग् प्राकृता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002778
Book TitleKuvalayamala Part 2
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1970
Total Pages368
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy