________________
॥ सिंघीजैनग्रन्थमालासम्पादकमशस्तिः ॥
स्वस्ति श्रीमदपाटाख्यो देशो भारतविश्रुतः । रूपाहेलीति सन्नानी पुरिका तत्र सुस्थिता ॥ सदाचार-विचाराभ्यां प्राचीननृपतेः समः । श्रीमच्चतुरसिंहोऽत्र राठोडान्वय भूमिपः ॥ त श्रीवृद्धि सिंहोऽभूद् राजपुत्रः प्रसिद्धिभाक् । क्षात्रधर्मधनो यश्च परमारकुलाप्रणीः ॥ मुञ्ज-भोजमुखा भूपा जाता यस्मिन् महाकुले । किं वर्ण्यते कुलीनत्वं तत्कुलजातजन्मनः ॥ पत्नी राजकुमारीति तस्याभूद् गुणसंहिता । चातुर्य रूप लावण्य-सुवाक् सौजन्यभूषिता ॥ क्षत्रियाणीं प्रभापूर्णा शौर्योद्दीप्तमुखाकृतिम् । यां दृष्ट्वैव जनो मेने राजन्यकुलजा त्वियम् ॥ पुत्रः किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल्ल इति चान्यद् यन्नाम जननीकृतम् ॥ श्रीदेवी हंसनामात्र राजपूज्यो यतीश्वरः । ज्योति भैषज्यविद्यानां पारगामी जनप्रियः ॥ आगतो महदेशाद् यो भ्रमन् जनपदान् बहून् । जातः श्रीवृद्धिसिंहस्य प्रीति - श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णा स तत्सूनुः स्वसनिधौ । रक्षितः शिक्षितः सम्यक्, कृतो जैनमतानुगः ॥ दौर्भाग्यात् तच्छिशोर्खाल्ये गुरु-तातौ दिवंगतौ । विमूढः स्वगृहात् सोऽथ यदृच्छया विनिर्गतः ॥
तथा च
भ्रान्वा नैकेषु देशेषु संसेव्य च बहून् नरान् । दीक्षितो मुण्डितो भूय जातो जैनमुनिस्ततः ॥ ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्त्वातच्वगवेषिणा ॥ अधीता विविधा भाषा भारतीया युरोपजाः । अनेका लिपयोऽप्येवं प्रत्र - नूतन कालिकाः ॥
प्रकाशिता नैके प्रन्या विद्वत्प्रशंसिताः । लिखिता बहवो लेखा ऐतिह्यतथ्यगुम्फिताः ॥ बहुभिः सुविद्वद्भिस्तन्मण्डलैश्च स सत्कृतः । जिनविजयनाम्नाऽयं विख्यातः सर्वत्राभवद् ॥ तस्य तां विश्रुतिं ज्ञात्वा श्रीमद्गान्धीमहात्मना । आहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरे चाहम्मदाबादे राष्ट्रीयः शिक्षणालयः । विद्यापीठ इति ख्यात्या प्रतिष्ठितो यदाऽभवत् ॥ भाचार्यत्वेन तत्रोच्चैर्नियुक्तः स महात्मना । रस-मुनि- निधीन्द्वेदे पुरा तत्वा ख्य मन्दिरे ॥ वर्षाणामष्टकं यावत् सम्भूय तत् पदं ततः । गत्वा जर्मनराष्ट्रे स तत्संस्कृतिमधीतवान् ॥ ar at सो राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि सम्प्राप्तो येन स्वातन्त्र्यसङ्गरे ॥ क्रमात् ततो विनिर्मुक्तः स्थितः शान्ति नि के त ने । विश्ववन्द्यकवीन्द्रश्रीरवीन्द्रनाथ भूषिते ॥ सिंधी पदयुतं जैन ज्ञानपीठं तदाश्रितम् । स्थापितं तत्र सिंघीश्री डालचन्दस्य सूनुना ॥ श्रीबहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थं निजतातस्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च तस्यासौ पदेऽधिष्ठातृसज्ञके। अध्यापयन् बरान् शिष्यान् ग्रन्थयन् जैनवाङ्मयम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंधीकुलकेतुना । स्वपितृश्रेयसे होषा प्रारब्धा ग्रन्थमालिका ॥ अथैवं विगतं तस्य वर्षाणामष्टकं पुनः । ग्रन्थमाला विकासार्थिप्रवृत्तिषु प्रयस्यतः ॥ बाणे-रत्वे-नेयेन्द्वेदे मुंबाईनगरीस्थितः । मुंशीति बिरुदख्यातः कन्हैयालालधीसखः ॥ प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मितौ । कर्मनिष्टस्य तस्याभूत् प्रयत्नः सफलोऽचिरात् ॥ विदुषां श्रीमतां योगात् पीठो जातः प्रतिष्ठितः । भारतीय पदोपेत विद्या भवन सन्ज्ञया ॥ आहूतः सहकार्यार्थ स मुनिस्तेन सुहृदा । ततःप्रभृति तत्रापि तस्कार्ये सुप्रवृत्तवान् ॥ तद्भवनेऽन्यदा तस्य सेवाऽधिका ह्यपेक्षिता । स्वीकृता च सद्भावेन साऽप्याचार्यपदाश्रिता ॥ नन्दे-निध्य-चन्द्रान्दे वैक्रमे विहिता पुनः । एतद्ग्रन्थावली स्थैर्यकृत् तेन नव्ययोजना ॥ परामर्शात् ततस्तस्य श्री सिंघीकुलभास्वता । भा विद्याभ व ना येयं ग्रन्थमाला समर्पिता ॥ प्रदत्ता दशसाहस्त्री पुनस्तस्योपदेशतः । स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना ॥ दैवादरूपे गते काले सिंघीवयों दिवंगतः । यस्तस्य ज्ञानसेवायां साहाय्यमकरोत् महत् ॥ पितृकार्यप्रगत्यर्थं यत्नशीलैस्तदात्मजैः । राजेन्द्र सिंहमुख्यैश्च सत्कृतं तद्वचस्ततः ॥ पुण्यश्लोक पितुर्नाम्ना प्रन्थागारकृते पुनः । बन्धुज्येष्ठो गुणश्रेष्ठो ह्यर्द्धलक्षं धनं ददौ ॥ प्रन्थमालाप्रसिद्ध्यर्थं पितृवत् तस्य कांक्षितम् । श्री सिंघीसत्पुत्रैः सर्वं तद् गिराऽनुविधीयते ॥ चिद्वज्जनकृताह्लादा सच्चिदानन्ददा सदा । चिरं नन्दवियं लोके जिन विजय भारती ॥
Jain Education International
For Private & Personal Use Only
१
२
३
४
५
६
७
८
९
१०
११
१२
१३
6 3 1 x ~
१४
१५
१६
१७
१८
१९
२०
२१
२२
२३
२४
२५
२६
२७
२८
२९
३०
३१
३२
३३
३४
३५
३६ ३७
३८
३९
४०
www.jainelibrary.org