SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ (४) भीकल्पसूत्रार्थप्रबोधिनी. ___(१) प्रगे सप्ततः समारभ्य साधैंकादशवादनान्तम्, मध्याह्ने चैकतः सार्धचतुर्वादनपर्यन्तमेवैतद्वाचनवेला शास्त्रसम्मता विद्यते । अत एनामकाले जात्वपि नैव वाचयेत् । (२) अमुष्या वाचने सति समयप्राचुर्ये साकल्येनैव श्रावणीयम् । तदल्पत्वे लवक्षरीयतत्तदधिकाराऽश्रावणेऽपि न क्षतिः । (३) प्रत्यब्दं पर्युषणमहापर्वणि माङ्गलिकत्वादेतच्छ्रवणश्रावण विधिर्जागर्ति नितराम् , अत एतदारभ्य मध्ये जात्वपि न जह्यात्, तथासत्यनिष्टं स्यात् । (४) वाचकेनापि निजाऽऽसनादुच्चासनोपरिष्टादेतन्निधाय मुखाग्रे च मुखवत्रिका ध्रियमाणेनैव श्रावयितव्यमेतत् । एवं श्रावकैः श्राविकाभिश्चापि प्रमादादिराहित्येनाऽनारतं परया सद्भक्त्या बहुमान-पूजन-प्रभावन-यथाशक्तितपासमाराधनपुरस्सरमव. हितेन चित्तेनैवाऽऽद्यन्तमेतच्छ्रोतव्यम् । (५) "खमियव्वं, खमावियव्वं । उपसमियव्वं, उवसामियव्यं । सुमइसंपुच्छणा बहुलेणं होयव्वं । जो उवसमइ तस्स अत्थि आराहणा, जो न उवसमइ तस्स नत्थि श्राराहणा । तम्हा अप्पणा चेव उपसमियव्यं ।" इत्याहत्या गिरा समुज्झितकलहद्वेषादिकाः शान्त्यैतन्महापर्वकल्पसूत्रयोराराधनं कर्तुं कारयितुञ्चाऽर्हन्ति । मनाप्रमादात्स्वलतिर्ममाऽभूदज्ञानयोगादिह जातुचिच्चेत् । विशोधयन्तस्तदमत्सरत्वाद, गुणानुमोदं प्रथयन्तु सर्वे ॥ १ ॥ १९५४ विक्रमवत्सरे कार्तिकशुक्लपञ्चम्याम् । -श्रीमद्विजयराजेन्द्रसूरिः । रतलाम ( मालवा ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy