________________
प्रस्तावना.
एतस्मिन्नतिपावने सर्वतः श्रेयस्करे श्रीकल्पसूत्रे परमकारुणिकधर्मावतारिश्री. मद्भगवदर्हताश्चरित्राणि, स्थविरावन्यः साधुसमाचार्यश्च सम्यगवर्ण्यन्त । प्रमुनैव हेतुना समस्ताऽऽहतानां मान्यतमे पर्वाधिराजे पर्युषणे महामाङ्गल्यकरमेतत्सूत्रं सहर्षमवश्यं वाच्यते । शोश्रूयन्ते चाऽऽबालवृद्धं परां श्रद्धा भक्तिञ्च वहन्तः समुत्साहं दर्शयन्तः सर्वे श्रोतारः । इत्थमेतद्वाचनश्रवणपरिपाटी समायाति बहुकालतः । अद्यश्चोऽपि समायाते पर्युषणे सर्वे जैना अमुमवश्यमेव श्रोतुङ्कामयन्ते । तद्येतदुपयोगिता सकलाऽऽर्हतमान्यता च कियतीति वक्तुं नाऽऽवश्यकम् । अस्ति चैतत्सूत्रं प्राकृतमयं तदुपरि कल्पकिरणावली-कल्पसुबोधिका-कल्पद्रुमकलिका-सन्देहविषौषधिप्रमुखाः कियत्यः संस्कृतटीकाः पूर्वाचार्यैरकारिषत । या एतत्प्रतिसूत्रवाक्याथै सुस्पष्टतया बोधयन्ति, परमेतासु सकलासु मूलसूत्रमिश्रणशब्दपाण्डित्याऽऽलङ्कारिकवर्णनमयत्वात्साधारण संस्कृतदिनाभेतद्वाचनाऽर्थानुसन्धानयोजनयोरतीवकाठिन्यमापततीति हेतुना मया हि गीवाणभाषाप्रियाणां सुमनसामृजुधियां सौकर्याय मनोविनोदाय चैषा 'श्रीकल्पसूत्रार्थप्रबोधिनी' नानी संस्कृतटीका निरमायि । नाऽकारि किलाऽमुष्यां शब्दपाण्डित्यं वाऽर्थकाठिन्यम्, नाऽलेखि कुत्राऽप्यसम्बद्धमनुपयुक्तं वा ।
प्रचलितप्राच्यपद्धत्यैव तत्तद्विषयानादाववतार्य सर्वेषां वाचनार्थाऽवगमनसौलभ्याय सरलतरगद्यैश्चरित्ररूपेण नव व्याख्यानानि संयोजतानि । वरीवर्ति चैतस्मिन्छीमहावीरविभोश्चरित्रं सविस्तरम् , श्रीपार्श्वनाथनेमिनाथ-ऋषभदेवानाञ्च संक्षिप्तम् , इतरेपामर्हता मिथोऽवान्तरकालश्च । आयोजि चाष्टमव्याख्यानाऽवसाने भगवदजितादिनेमिपर्यन्तानां सामान्यपरिचयोऽपि । तदियमृजुमतिकसाधुसाध्वीप्रमुखजनानां सुखेन तदर्थाऽवगमे साधकतमत्वान्नूनमद्वितीयैव भाविनीति सम्भाव्यते, अत एतां दर्श दर्शममत्सराः सुधारका कर्तुः श्रमं साफल्यं नयन्तुतरामित्येव सादरं सविनयं सर्वानर्थयमान इहत्याऽऽवश्यकसूचनाः संसूच्य सर्वथा विरामयतेऽसौ लेखिनीम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org