________________
( १४ )
रादिग्रामेष्वञ्जनशलाकाप्रतिष्ठा महोत्सवं कारयन् भावुकगणं धर्ममुपदिशन् क्रमशो रत्नललामपुरीमागात् । तत्र धर्मदेशनाकाले ते चीरोलादिग्रामवासिनः श्रावका आत्मकथां दुःखमयीमेनं सकरुणं श्रावयामासुः- " स्वामिन् ! वर्षाणां शतत्रयी व्यत्यैत्, अन्यायकर्त्ताऽपि सर्वे गताः, परन्तु वैवाहिकादिकसम्बन्धाऽयरोधे वयमिदानीं महतीमगदनीयां दशां नीताः स्मः, अद्यावधि महता कष्टेन जातिं धर्मश्चाऽरक्षाम | परमतः परं तथासत्युभयतो भ्रष्टा एव भविष्यामः । अथैकदा सर्वे मिलित्वा नो लक्षं दण्डयितुं निरधारयन्त, परं मतभेदात्तदपि मुधैव बभूव । स्वमप्यनेकधा जातीयाः प्रार्थिताः, इतरेऽपि कियन्तो महान्त एतस्मिन् प्रायतन्त परं कोऽपि सफलमनोरथो नाभूत् । अतएव निरुपाया अशरणा महाकष्टं सहमाना भवन्तमेव शरणं पश्यामः । त्वामन्तरेण को वापरो महाकष्टसागरादस्मान्नः समुद्धर्त्ता स्यात् ।। " इति सकरुणां तदुक्तिमाकर्ण्य तानुवाच - यूयं धीरा भवत, अहमितो विहृत्य खाचरोदं गन्तास्मि, तत्र युष्मा - भिरागन्तव्यम् । ततस्तेषु गतेषु रतलामवासिश्रावकान् प्रच्छं प्रच्छं तत्स्वरूपं विदित्वा तदैव विहृत्य खाचरोदमाजगाम सः । तत्सिषाधयिषया तत्रैकां जातीय कार्यकारिणीं सभां संस्थापितवान्। तद्वारा रतलाम - जावरा-वड़नगर - खाचरोदोज्जयिनीतिग्रामपञ्चकवासिश्राव काननेकसद्युक्तिं प्रदर्श्य प्रतिबोध्यैकं लेखं तैरलेखयत् -- यदमुष्य गुरुदेवस्य श्रीमद्विजय राजेन्द्रसूरेरादेशेन पञ्चग्राम्याः कृतैकमता वयं सर्वे दण्डमन्तरेणैव चीरोलादिषण्णगरनिवासिनस्ताञ्जातौ समानेतुं निर्धारयामस्तत्र ये श्रावका हस्ताक्षरं न करिष्यन्ति तेऽवश्यमेव दण्डं मोक्ष्यन्ते । ततस्ते सर्वे तत्र पत्रे स्वस्वहस्ताक्षरं कृत्वा तत्प्रान्तीयसमस्तजनानामनुमत्यर्थममुना पत्रेण सहाऽष्टौ चतुरश्रावकान् प्रेषयामासुः । तेऽपि मासान्ते सर्वं सम्पाद्य खाचरोदमागच्छन् | ततस्तेन सूरिणैकस्मिन् दिने रतलामादिग्रामपञ्चके प्रतिगृहं सेटक सेटकप्रमितसितोपल पुटकानि चीरोलादिषङ्ग्राम्यैस्तैरैवण्टयत । तदनु चीरोलादिषड्ग्राम्या एकस्मिन्नहनि तान् समस्ताने कत्राऽबुभुजत् । खाचरोदीयाः श्रावकाश्च तदैव वैवाहिकं सम्बन्धमपि तैः सह प्रावीवृतन् । ततश्वीरोलादिवासिनोऽप्येकस्मिन्नेव दिने समस्त तत्प्रान्तीय जैनान् खरसोदग्रामे निजव्ययेनाऽनाय्य विविधाऽशनपानैर्यथावदविषत। इत्थं त्रिशतवर्षेभ्यो जातिवाह्यास्ते चीरोलादिषण्णगरीया यत्पुनर्जातौ सम्मिमिलुस्तत्तन्माहात्म्याधिक्ये प्रत्यक्षमेव प्रमाणम् । यच्च साधयितुं रतलामनरेशस्थानवासि पूज्यप्रभृतयो बहुधा प्रयत्यापि नो प्राभवंस्तदनायासेन विनादण्डनमसकौ समपादयत । अमुष्य वचनातिशय-समाधियोग-दुष्करतपोभिः प्रासीदन्तौ भक्तिमन्तौ च तौ झाबुवाधीशचीरोलाधीशौ प्रत्यहं देवार्चनेन सहैतत्प्रतिविम्बं दृष्ट्व मच्यपेयादि गृ । तयोश्चाना नियमेन तद्विश्वासद्द्रढिम्ना च सर्वे मनोरथाः सिध्यन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org