________________
नैसत्येन सर्वदा । ईशसमाधियोगद्रढिम्ना कियता माविना भूतानां च भावाना सा चात्कारोऽप्यस्य भवितुं लग्नः। यथा-कूकसीनगरस्य दाहा, कडोदवासिमः खेतावरदाप्रेष्ठिनः समनि चौर्यम्, आहोरनगरे च चतुर्थस्तुतिमतां प्रतिठोत्सवे महोपसर्गभवनम् , सं० १९५६ वर्षीया दुर्भिक्षता । इत्याधने के प्रागेवैतत्सुचितास्तस्मित्रिकालदर्शिता व्यञ्जन्ति ।
तस्य हि साध्वाचारोऽप्यतीवदुष्कर भासीत् । यच्छीतकालेऽप्येष निरावरण एव प्रतिक्रमणध्यानयोः कर्ताऽऽसीत् । निजोपकरणादिकं निजेनैव वहमानो न तु शिष्यवमेण, गृहस्थानां तर्हि तदाशैव का स्यात् ?, किञ्च महता जवेन व्रजतस्तस्याऽग्रे युवापि गन्तुं नैव पारयेत, किन्तु सटित्येव परिश्राम्येत् । अमुना सार्धशतद्वयमनुजेषु दीक्षितेपू. स्कृष्टतमतदीमापतिदुष्करसाधुसमाचारीपरिपालनाऽक्षमत्वाद् बहुषु तेषु शिथिलाचारिदेवोपासिपीताम्बरपारिशिष्यता नीतेषु कियन्त एक भवभीरवो दशविंशतिसाधवस्तत्सेवायां स्थेमानं भेजिरे ।
८ चीरोलाविषण्णगरीयश्रावकोद्धार:
मालवदेशे रूनीझाऽऽख्य-धूमयानस्थानात् ( स्टेशनात्) ऐशान्यां सार्धक्रोशद्वयान्तराले 'चीरोला' नाम्नी ग्रामटिकाऽस्ति । तत्र त्रिशताऽब्द्याः पुरस्तादुपकेशवंशजानां जैनानां पञ्चशतसदनान्यासन् । तेषामेकः श्रावको वैमनस्येन पत्नीमनुक्क्वैव रतलामस्थेन केनचिरेण सह स्वपुयाः सम्बन्धमकरोत् । तमजानाना तत्पत्नी च सीतामऊनगरीयवरेण दचाऽधिकमद्रेण महेभ्यपुत्रेण सत्राऽकार्षीत्तत्सम्बन्धम् । तत उभावपि वरौ समितजन्यौ महताऽऽडम्बरेणैकस्मिमेवाहनि तामुद्वोढुमायातौ तत्सदने; किन्तु महता प्रपशन सीतामऊवास्येव तां परिणीय स्वसदनमानीतवान् । तदनन्तरं तदीयया रत्नललामपोरा लजिताः सहपचीयैरशेषैः परामृश्य खरसोदादिषग्राम्यैः सह चीरोलावसतिकाजैनाञ्जातिवाधानकार्युः । पुनर्महता प्रयत्नेन मालवीयप्रतिग्रामनगरादाबेवमवधारयामासुख-यदेभिः सह कुत्रापि कोपि विवाहादिसम्बन्धं सहाशनं वा नैव कुर्यादिति। ततः कियत्कालानन्तरमेकदा खरसोदीयजैनजनमहाप्रेरणया सर्वेषाममीषा जातिवाह्यानां पुनर्जातिमेलनाय मालवमण्डलीयाः सर्वे मुख्या रत्नललामे सङ्गत्य बहुधा परामृश्य लवमेकं दण्ड दाबेचीरोलावासिनस्तर्येव जाती प्रवेष्टुमर्हेयुरिति निरचैषुः । परन्तु तहतदण्डं वण्टयितुं मिथो जायमानं विवादमदीक्ष्य सर्वे जग्मुरेव । तत एनं विवादं करगतीकृत्य स्थानकवासिपूज्याभ्यामुदयचन्द्रचोथमलाभ्यां बहुधा प्रयत्याऽपि प्रान्ते नैराश्यमेव लेमे।ततो रत्नललामनरेशोऽप्यमुंचिरन्तनं कलहं त्रोटयितुमुद्युक्तो भूत्वा, दलद्वयं सामाजिकी राजकीयाश्च शक्ति दर्श दर्श बहुधा परिवोध्यापि साफल्यं नाऽध्यगच्छत् । यहि चैष श्रीमद्विजयराजेन्द्रपरीश्वरा कूकसीनगरीयचतुर्मास्यन्ते बाग-राजगढ-
माधु:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org