________________
श्रीशुभचन्द्राचार्यवर्येण विरचितम् भागिनेयो महामान्यो भवेल्लोके पुनः शृणु। जिह्वारथः प्रकथ्येत कथाकुतूहलादिकम् ।। २६ ।। अध्वश्रमापनोदार्थ कथा कथ्येत सज्जनः । श्रमहानेस्तदा तेन प्रोक्तो जिह्वारथः शुभः ॥ ३० ।। उपानही धृते पादे जले तद्दक्षताकृतां । कंटकोपलसर्पादि न दृश्येत जलेयतः ॥ ३१ ।। शाखिमूले तथा तेनातपत्रं धृतमुन्नतम् । काकादिगूथरक्षार्थं तदक्षत्वं न संशयः ।। ३२॥ यदुक्तं नगरं रम्यं वसते चोद्वसं तथा। साधार्मिकजनैश्चैत्य चैत्यालययतीश्वरः ॥ ३३ ॥ पूर्ण स्वजनसंपूर्ण तत्संवासिमतं पुनः । अन्यदुद्वसमाविद्धि विकल्पस्तस्य मानसः ॥ ३४ ॥ नारीप्रश्न विचारोऽयं कथ्यते तन्मनोगतः । विवाहिता प्रताड्येत बद्धा सा प्रोच्यते जनैः ॥ ३५ ॥ मुक्तान्यथा मतान्यच्च मतप्रश्न विचारणम् । पंचत्वं प्राप्तवान्यस्तु नरो लोके विचक्षणः ।। ३६ ॥ धर्मी दयागुणोपेतो ज्ञानवान् विनयान्वितः । यच्छन् पात्राय संदानं कुर्वन्कीत्तिमयं जगत् ॥ ३७॥ तदानीं स मृतो ज्ञेयः यस्तु दानादिवर्जितः । कदर्यः पापकर्माढ्यो मृतः पूर्वं स भूतले ॥ ३८ ॥ भुक्तं च भोक्ष्यते वप्र धान्यंतस्य वितर्कणा । ऋणं पूर्व विधायोच्चैर्यत्क्षेत्रं क्रियते जनः ।। ३६ ॥ तद्भुक्तं प्रोच्यते सद्भिरन्यथा भोक्ष्यते पुनः । भो इंद्रदत्त वर्तेतेवे डाले लांगलस्य च ॥ ४० ।। ककंधुकंटकौ द्वौ च वर्तेत ऋजुबक्रगी। भो तांत तव वाक्यानीमानि वै न भवंत्यहो ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org