________________
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
खलः स्वभावान्सुगुणान् जनानां
निहंति नानाहित कारिणश्च । संदशितानेकपदार्थवृदान्
भास्वत्करान्नाहुरिवप्रबुद्धान् ॥११२।। प्रसादितो दुर्जन एव दोषं
करोति दक्षैर्वर दान वाक्यः । अहिर्यथा मिष्टपयः प्रदान
जीवैः कृताशेषपरोपकारैः ॥११३॥ वरं विधात्रा विहिताः खलाश्च
परस्य दोषग्रहणे समर्थाः । तथा च काव्यानि विदूषितानि ।
पुराणि कोलैर्मलनाशिते च ॥११४॥ कि प्रार्थ्यते सोऽपि खलो मया यः
स्वभावतो दोषगणं ददाति । संप्रार्थ्यमानोऽपि यमो नराणां
___ नो मुंचते दुष्टगुणप्रभावात् ॥११५।। कि प्रार्थ्यते साधुगुणः स्वभावाद्
दत्ते गुणान् पक्षिविपक्षिकाभ्यां । अप्रार्थ्यमानोऽब्दगणश्च वृष्टि
करोति निबेक्ष्वहि शुक्तिकायाम् ।।११६॥ जयतु जित विपक्षो मूलसंधः सुपक्षो,
हरतु तिमिरभावं भारती गच्छवारः । नयतु सुगतिमार्ग शासनं शुद्धवर्गम्,
जयतु च शुभचंद्रः कुंदकुंदो मुनींद्रः ।।११७।। तदन्वये श्री मुनिपद्मनंदी
विभाति भव्याकरपद्मनंदी। शोभाधिशाली वरपुष्पदंतः
सुकांतिसंभिन्नपुष्पदंतः ॥११८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org