________________
श्रेणिक पुराणम्
Jain Education International
चक्रे च जिष्णुजिनपस्य नाम
श्री पद्मनाभेति विशिष्टचेताः ।
नाना स्तवैः सन्नुतिमाततान
भक्त्या सहस्त्राक्षसमन्वितोऽभूत् ॥ ६० ॥
परिष्कृतः सोऽपि सुरेंद्रपत्न्या
रराज रम्थाभरणैर्विशिष्टैः । अनेकसूरप्रतिमप्रभाढ्ये नरामरैः पूजितपादपद्मः ॥ ६१ ॥ दुंदुभ्यानक शंख काहलमहानादैर्नर्टतः सुरा
वीणावंशमृदंगताल निनदैः संपूरयंतो दिशः । गायंतः सरसं सुरागकलितं गीतं भवंतः स्तुति कुर्वतो जयनादमुन्नतपदाश्चक्रुः क्षणं जन्मजं ॥ ६२ ॥ आरुह्य द्विरदं सुरेश्वरपतिर्नानासुरैः सेवितः
कृत्वांके जिनपं सुरपथि प्राप्तोसवैः प्राप्तवान् । रम्यां तां वर हारि शालकलितां तुंगप्रतोलीपरां, नाना केतुकराश्रितां शुभ महाधामलिसंराजितां ॥ ६३ ॥ पित्रोस्तं तनयं विशालनयनं दत्वा सुरेशः शुभं, नत्वा तत्पदपंकजं सुरगिरी संजातवृत्तं मुदा । आख्यन्नामकृतिं सुनृत्यनृपतेरग्रे शुभैर्नर्त्तनै
र्दत्वा भोग कदंबकं सुरवरैः सार्द्धं स्वगेऽगमत् ॥ ६४ ॥ असुर निकरसेव्यो वर्द्धयन् पद्मनाभो जनयति
मुदमिद्धं भूरिपित्रोर्यथेष्टं सकल कनकभूषा । भूषितो रम्य हो
विशदतरगुणाढ्यो मूत्रविद्योगहीनः ॥ ६५ ॥
वामांगुण्ठं पादपद्मस्य रम्यं
पीयूषाढ्यं संलिहन् पूतदेहः ।
एधे वेगाब्दालचंद्रः कलाभिस्
विज्ञानाढ्यो लक्षणैः पूर्णगात्रः ॥ ९६ ॥
For Private & Personal Use Only
३६५
www.jainelibrary.org