________________
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
जगौ वल्लभ कि साध्यंजीवितेन त्वयाच किंः । नाप्यते कीतिश्रेष्ठिन्याहारश्चेद्दिव्यभूषणं ॥५६ ॥ श्रुत्वाश्वास्य च तां चौरो गत्वा तत्सदनंद्रुतं । प्रविश्य चोरयित्वा तं सकौशल्येन निर्गतः ॥ ५७ ॥ होरोद्योतेन तं चोरं मत्वातलवराः क्षणात् । धावंति स्मानुमार्गेण चौरोऽयमिति वादिनः ॥ ५८ ।। सकागारिः पलाय्याशु प्रविष्ट: पितृसद्वनम् । ततोगंतुमशक्तोऽग्रे वारिषेणस्य मुक्तवान् ।। ५६ ॥ हारो ध्यानस्थितस्यैवादृश्योऽभूत्तस्करः क्षणात् । कुमारं हारपादांतं वीक्ष्य राज्ञे निरूपितं ।। ६० ॥ ते राजन् यदि ते पुत्रश्चौर्यंचेक्रीयते जनाः । परेकथंनिवार्यते वृत्तिर्मुक्तेच चिर्भटान् ॥ ६१ ॥ तस्यादेशात्ततस्तत्र मातंगेनकृपाणवत् । पुष्यदामायते मुक्तं तस्य व्रतप्रभावतः ॥ ६२॥ देवादतिशयं जातं श्रुत्वा निंदां विधाय च । आगत्यश्रेणिकेनैव क्षमा संकारिता मुहुः ॥ ६३ ॥ विद्युच्चौरेण संयाच्याभयं दानं नपान्मुदा। प्रकटीकृत्य स्वात्मानं तत्वरूपं निवेदितं ।। ६४ ।। वारिषेणो गृहनेतुं प्रार्थितो वचनं जगौ । पाणिपात्रेण भोक्तव्यं गृहीतं च मयावतं ।। ६५॥ वार्यमाणो नृपाद्यैश्च सूर्यदेवमुनीश्वरम् । आसाद्यलुंचयित्वा तान् कचान्नत्वादिदीक्षके ।। ६६ ॥ त्रयोदशविधं रम्यं चचार चरणं स कः । दर्शनंसगुणं रम्यं दधद्देवनमस्कृतम् ।। ६७ ॥ पुष्पडालादिसच्छिष्या स्थापयन्व्रतवजितान् । व्रतमार्गोऽशुभाचारो वारिषेणो विचक्षणः ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org