________________
श्रेणिक पुराणम्
३२३
मायावी वचनं चाख्यत्प्रघट्ट प्राप्य भूपते । सर्वेपि मादृशा एव शुभकार्यविदूरगाः ॥१०२॥ यस्यांगुल्लां भवेन्नूनं पीडनं तस्य वेदना। अन्ये हसंति दूरस्थास्त्वत्समा नृप पुंगव ॥१०३॥ नृपोऽवोचन्निकृष्टोऽसि सदृष्टिरपि नो भवान् । दयाहीनोऽसि चारित्रवजितोऽसि विबुद्धिमान् ॥१०४॥ सबभाण मया राजन्नोच्यते वितथं वचः । किमु गालिप्रदानं त्वं ददासि वर योगिनां ॥१०॥ जैनत्वं त्वयि नाम्नास्ति न साक्षाद्गुणमंडितं । यतीनां गालिसंदानात्परमर्मविभाषणात् ॥१०६॥ वयंजना इति प्रोक्ते प्रोवाच मगधेश्वरः । संवेगादिगुणाभावाद्दर्शनं न दयां विना ॥१०७॥ चारित्रं न हि धीमत्वं न हिचेदृग्विकुर्वणात् । संयतत्वं न योगित्वं शास्त्रवित्वं न च त्वयि ॥१०८॥ मार्गप्रभावनानाशान्नोचितं च तवेदशम् । चेत्करिष्यसि जानासि त्वमेवाद्य फलाद्रुतं ।।१०६॥ दुष्टवाक्यप्रबंधन नासि त्वं मुनिरेव हि । मुंचेदं कर्म मद्धाम समेहि मुनिपुंगव ॥११०॥ तवाशां पूरयिष्यामि नागमिष्यसि चेद्रुतम् । कारयिष्यामि ते नूनं गर्दभारोहणं मुने ॥१११॥ इति साम्यादिवाक्येन समाश्वास्य गृहं तकौ । नीतौ च स्यापयामास मंदिरे श्रेणिको नृपः ॥११२॥ तदोचुर्मत्रिणो राजन्नस्य चारित्रवजिनः । संगस्तवकथंयोग्यो विशिष्टसायिकेशिनः ॥११३॥
किसी समय महाराज इन्द्र अपनी सभा में अनेक देवों के साथ बैठे थे। अपने वचनों से सम्यक्त्व की महिमा गान करते हुए वे कहने लगे कि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org