________________
३२२
श्रीशभचन्द्राचार्यवर्येण विरचितम्
कुसंगम कुठारेण नोछेद्यो वज्रबंधनः । कुशास्त्रवायुनानैव क्षमश्चालयितुं दृढः ॥ ८६ ॥ सम्यक्त्वशिखरी तस्य सिंचितः शास्त्रवारिणा । दृढभावमहास्कंधो न छेत्तुं शक्यते परैः ॥ १० ॥ इति संशयतस्तस्य सम्यक्त्वं च शचीपतेः । श्रुत्वा सर्वे दधुश्चित्ते विस्मयं धर्ममानसाः ॥ ६१ ॥ द्वौ सुरौ तत्परीक्षायायवतीणों भुवंवराम् । चिंतयंताविति प्रीतौ मानसे स्मयसुंदरौ ॥ ६२ ।। क्व पाकशासनस्यैव वर्णनं क्व नृपो नरः । इति संचित्य नद्यां तौ तस्थतु: श्रेणिकागमे ।। ६३ ॥ मुनिवेषेण चैकोऽस्थादायिका कारत: पर। प्रवृद्धगर्भभावस्थः पिच्छिका कुंडकान्वितः ॥ १४ ॥ मुनिरूप सुरो जाकैर्मत्स्यानाकृष्य निक्षिपन् । करंडके तया साकं विवृद्धभ्रू णयास्थितः ।। ६५ ।। आगच्छन्नृपतिर्वीक्ष्य तादृशंतधुगं पथि । उत्तीर्य घोटकान्नत्वा जगौ दर्शनमंडितः ॥ ६६ ॥ विधीयते युवाभ्यां किं दुःकर्म जनहास्यकृत् । मायावी वचनं प्राख्यन्नृपाऽस्यागर्भसंभवे ॥ ७ ॥ मीनमांसस्य संजाता वांछा तेन विधीयते । मत्स्याकर्षणमेवात्र नो दोषो मम भूपते ।। ६८ ॥ मनिवेषेण योग्यं नैतत्कर्मशभवजितं ।। इति प्रोक्ते जगौ देव: किं विधेयं नृपाधुना ।। ६६ ।। अनया सह संघट्टो ममासीद्विजने वने । ततो गर्भस्य संभूतिर्मासाशा च ततोऽजनि ॥१००॥ तत्पूरणं विधेयं हि मया नृप तदर्थना । नृपेणाऽभाणि भो योगिन्मुनि रूपेण नोचितं ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org