SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ त्रयोदशमः सर्गः श्रीगौतमगणाधीशं गौतमं मुनिकोत्तमं । प्रणम्य स्वभावान् धीर: पप्रच्छाभयपंडितः ॥ १ ॥ ततोजगौ गणीवाचा गंभीरजलदा भया। भवत्रिकसुसंबंधंवक्ष्ये भव्य नरोत्तम ॥ २ ॥ वेणातडागपुर्यांच रुद्रदत्तो द्विजः कदा। देवपाखंडिसंमोही चचाल तीर्थ हे तवे ॥ ३ ॥ उज्जयिन्यां कदाचित्स आगमत्तीर्थमोहितः । अहंद्दासस्य सद्धाम्नि योषिज्जिनमती हृदि ॥ ४ ॥ प्रियस्य बुद्धिरूढस्य विवेश धरिणीसुरः । ययाचे जेमनं रात्रौश्रेष्ठिनं भुक्तिसिद्धये ॥ ५ ॥ अबीभणत्तदा तस्यसुकांता वामलोचना । विप्ररात्रौ ददेनैवभोजनं पाप पादकम् ॥ ६ ॥ को दोषोऽस्ति स्वसश्चेत्थं प्रश्नेऽवादीद्वचः शुभं । पतंगभृङ्गसइंशमक्षिकाजंतुघाततः ॥ ७ ॥ निंदितं सूरिभिर्भव्य भोजनं भूरि पापदम् ।। हिंसामयं च बीभत्सं नानादुर्गतिदायकम् ॥ ८ ॥ उलूकव्याघ्रसारंग नागभेरंडवृश्चिकाः । मार्जारमूषकश्वानो जायते क्षणदाशनात् ॥ ६ ॥ किं च भो विप्र! यामिन्यां मृते स्वजनबांधवे । यदि स्यात्स्नानशुद्धिर्न किं च लोकस्य शुद्धिता ॥ १० ॥ निशाभोजनसंरोधात्सुखी. भवति मानवः । तज्जन्मसंभवं कष्टं नाप्नोति च परत्रजं ॥ ११ ॥ अतो ददामि नो विप्र क्षपायां जेमनं धनम् । प्रातर्भोज्यं च दास्यामि ततस्तेन व्रतं कृतम् ॥ १२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy