________________
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
तस्मादासन्नभव्योऽसि मा भयं व्रजसंसृतेः । इमानि भावितान्येवं कारणानि त्वयाऽधुना ॥१७३॥ समस्त दोषसंत्यक्तं सम्यग्दर्शनमाश्रितम् । विनयो विधिना राजंस्त्वयाऽसादिस्वभावतः ॥१७४॥ दधासि हृदयं शीले व्रतोद्योतनतत्परः । अष्टांग परिपूर्णं तच्छास्त्रं पारंगतवान्पुनः ॥१७५।। संवेगं भावयंश्चित्ते भवांग भोगसंचये । विदधासि तपस्यायां मनो मागध सादरं ॥१७६।। धर्मार्थे जिनपूजादौ स्वशक्या स्थाप्यतेधनं । समाधानं प्रचक्राण साधूनां विस्मयप्रदं ॥१७७।। वयावृत्त्यं यथोक्तं त्वं चर्करीषी सुयोगिषु । दोषातीतेषु सद्भक्ति जिनेषु जितवैरिषु ॥१७८॥ धर्माचार्येषु वर्येषु पर्युपासनमादरात् । बहुश्रुतेषु जैनेषु भक्त्या चेक्रीयषे मुदा ॥१७॥ आप्तोद्दिष्टेषु शास्त्रेषु भक्तिरातन्यते त्वया । अवश्यं करणीयेषु मतिरावश्यकेषु च ॥१८०॥ मार्गप्रभावनां नित्यं तनोषि वषसिद्धये । वात्सल्यं स्थापयन्मार्गे जिनधर्म समाश्रितान् ।।१८१॥ युग्माष्ट भावनाभिश्च बध्नासि मम महोच्छ्यं । तीर्थकृत्वं परं पुण्यं त्रैलोक्य क्षोभकारणं ॥१८२॥ अतो विसर्म्य सत्प्राणान् प्राप्य रत्नप्रभां परां। मध्यमायुष्य सो भुज्य भविष्णुस्तीर्थनायकः ।।१८३॥ पुण्यधाम्नि पुरेनाथ किमन्योऽधोगते: प्रियः । नित्यं दुर्गति मा सेवी श्रेणिकश्चेत्यवीवदत् ।। १८४।। आदिशन्मुनिनाथस्तमिति भूप! निशम्यतां । कालसौकरिकस्यात्र शुभायाश्च विदुर्गतिः ।।१८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org