________________
श्रेणिक पुराणम्
३०५
सर्पनिक्षेपणाद्राजन् दुश्चरित्रात्परिग्रहात् । बबंधिथेऽह पूर्व त्वं नरकायुश्च जन्मनि ॥१६०॥ बद्धदेवायुषांनृणां व्रतादानं भवेन्नप । नान्येषां दर्शनादानं जायते चतुरायुषं ॥१६१॥ मा भैषीर्भवतो भीमाद्भव्योऽसि भवनां वर । पुराणश्रुतिसंभूत विशुद्ध्या शुद्धमानसः ॥१६२॥ अधः करणमासाद्य संस्थित्यांतमुहूर्ततः । अपूर्वकरणं तूर्णं गमयित्वा गमादिवत् ॥१६३॥ अनिवृत्तिविधानेना , शम्येति करणत्रयात् । सप्तप्रकृतिसंतानमादिमं दर्शनं श्रितः ॥१६४॥ अंतर्मुहूर्ततश्चोर्ध्वं सम्यक्त्वोदयतो नृप । क्षायोपशमिकं राजन्नासादि च त्वया परं ॥१६॥ सप्तप्रकृतिनिःशेषक्षयात्क्षायिकमाप्तवान् निर्मलं निश्चलं नाशरहितं परमोदयम् ॥१६६।। श्रद्धानं सप्ततत्त्वानां जिनास्योद्गीतसत्पदा । सद्युक्तियुक्तसच्छात्र प्रोक्तानां दर्शनं मतं ॥१६७॥ भो भव्यात्र भवे भव्यं दर्शनं दुर्लभं मतं । नाप्यं कष्टशतै राजन् ! संसृतिद्रुमदाहकम् ॥१६८॥ दर्शनान्नोत्तमं किंचिद्दर्शनान्नोत्तमं सुखं । दर्शनान्नोत्तमं कर्म दर्शनान्नोत्तमं तपः ॥१६६॥ दर्शनात्साध्यते सिद्धिः दर्शनात्तीर्थनाथता । दर्शनादाप्यते नाको दर्शनात्सर्वसातता ॥१७०॥ यत्प्रभावावता यांति कुव्रतान्यपि देहिनां । तद्विना कुव्रता यांति सुव्रतानि च योगिनां ॥१७१॥ माभैपीभव्य तल्लाभागामिन्यत्र भारते । समत्युत्सर्पिणीकाले तीर्थकृत्पद्मनामभृत् ॥१७२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org