________________
श्रेणिक पुराणम्
३०१
पर्याप्तेतर सल्लब्ध्यपर्याप्तपद भेदतः । त्रैधं सर्वे भवंत्येवं देहिनो मगधेश्वर ॥१२७।। तत्र पृथ्वी चतुर्धास्यात् पृथ्वीजीव स्तथाधरा । पृथ्वीकायिक इत्येवं पृथ्वीकायस्ततोऽपरः ॥१२८॥ एवं योज्यं च सर्वत्र जलादिषु चतुर्षु च । घनांगुलस्यासंख्यात भागदेहाः समादिमाः ॥१२६॥ वनस्पति शरीरं च संख्यातांगुलमिष्यते । उत्कर्षतो जघन्याच्चांगुला संख्यातभागकं ॥१३०॥ शुद्धतर भुवामायुर्दादशाब्द सहस्रकम् । द्वाविंशति सहस्राण्यणपां सप्तसहस्रकं ॥१३१।। घस्रत्रिकं च तेजस्येवायौ त्रिकसहस्रकं । वनस्पत्यां सहस्त्राणां परायुर्दशसंमतम् ।।१३२॥ द्विव्युदध्यक्षभेदेन विकलास्त्रिविधाः मताः । संजीतरविभेदेन पंचाक्षा द्विविधा तथा ॥१३३॥ पंचाक्षाः संज़िनस्तत्र भियंते तुर्यधाखिलाः । नारकाःखलु तिर्यंचो जलजै जैस्त्रिविधापक्षिभेदतः॥१३४॥ कर्मजा भोगभूजाता नरा अपि द्विधा नृपः । त्रिपंचकर्मभूष्वेव जाता मोक्षाधिकारिणः ॥१३५॥ देवाश्चतुर्विधा राजन् भावना वानव्यंतराः । ज्योतिष्काः कल्पजातस्त्र भावना दशधा पुनः ।। १३६॥ अष्टधा व्यंतराः पंच विधा ज्योतिः सुरानृप । स्वर्गिणो द्विविधाः कल्पा:कल्पातीताश्चमागध ।।१३७॥ विस्तीर्णं जिननाथेन जीवतत्त्वं निरूपितं । अजीवः पंचधा प्रोक्तो. धर्मादिपदभेदतः ॥१३८।। लोकप्रदेशमात्रं च धर्मद्रव्यं प्रवर्त्तते । कारणं चैकभेदं चामूर्तं सदादिसंयुतं ॥१३६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org