________________
३०२
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
अधर्मद्रव्यमाज्ञातं । तादृशं स्थितिकारणं । वृक्षच्छायेव विख्यातमनंतगुणपूरितं ॥१४०।। एकोऽनंतप्रदेशी च लोकेतर विभेदतः । द्विधाकाशोऽवगाहस्य दाता मूतॊगृहादिवत् ॥१४१।। कालाणवो विसंख्याता भिन्ना रत्नादिराशिवत् । वर्त्तना हेतवः षण्णां द्रव्याणां चक्रवन्नृप ॥१४२॥ शरीरेंद्रिय सदगेह विमानोद्योतभेदतः ।। अनंताः पुद्गला लोके कर्माहारादिभेदतः ॥१४३।। मिथ्यात्वाविरती योगाः कषाया आश्रवामताः । कारणं द्रव्यभावाभ्यां द्विधा स भिद्यते पुनः ।।१४४॥ बंधोऽष्टधामतो राजन् कर्मभेदेन सोऽखिलः । द्रव्यभावविभेदेन द्विधा भिद्येत भूपते ॥१४५॥ चतुर्धा निखिलो बंधो विभावपरिणामतः । प्रथमः प्रकृतेबंध प्रदेशाख्यो द्वितीयकः ।। १४६।। स्थितेबंधस्तृतीयस्तु व्यनुभागश्चतुर्थकः । आजवंजव सद्धेतुः कृषेर्बीजं यथा नृप ।।१४७॥ अनुप्रेक्षाव्रतैर्धर्म
परीषहजयस्तथा । कर्मणां संवरो द्वधा द्रव्यभाव विभेदत: ।।१४८।। निर्जरा च द्विधा हीत्थं सम्यग्दृष्ट्यादिभेदतः । तथैकादशधा ज्ञेया संख्यातद्रव्यभेदतः ।।१४६।। सविपाकाऽबिपाका च निर्जरा हि द्विधामता । आद्या साधारणा नृणामपरा च कृता नृभिः ॥१५०।। द्रव्यभावादिभेदेन कर्मणां मोचनं नृप । मोक्षः स कथ्यते सद्भिः सर्वा सात विदूरगः ॥१५१।। पुण्यपापैद्विधा भिन्नैः प्रत्येक तत्वमायुतम् । पदार्थ इति कथ्येत नवधा भव्यभूपते ।।१५२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org