________________
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
वृत्तांतं कथ्यमानं भो श्रोतव्यं च मया त्वया । पुरे पद्मरथे राजा वसुपालाभिधोऽग्रणीः ।।२७३।। अयोध्याधिपतेविप्रो जितशत्रोश्च संनिधि । राजकार्यकृते कश्चित्प्रेषितस्तेन सत्वरं ॥२७४।। सत्पृथिव्यामटन् विप्रो पश्यन्मानुषसंभवम् । शाखामगादिचीत्कारं कर्णयन्कर्णभीतिदं ॥२७५।। कदाचिच्छम संक्रांतः सलिलाऽभावतो द्विजः । पिपासापीडितो वृक्षतले संपतितोऽसुखी ॥२७६।। तद्धावं च परिज्ञाय कीशनाथेन दर्शितम् । जलं प्रविपुलं दृष्टं इति विप्रो व्यतर्कयत् ॥२७७।। महारण्य नराऽगम्ये स्याज्जलं सः संतोषभरः । न वेमाति विधि मत्वाऽमीमरद्वानरं द्विजः ॥२७८।। तस्याजिनस्य संकृत्य खल्लिकां पापकोविदः । प्रपूर्य वारिभिर्वेगात्समनैषीन्महीसुर ॥२७६।। पंचत्वकरणं तस्य युक्तं नो वाऽथवा मने । इत्युदीर्य विरक्तेऽसौ सुनिः प्राख्यद्वचो वरं ॥२८०॥ अधमेष्वधमत्वं च शठेषु शठता वणिक् । सर्वपापिषु पापित्वं सर्वनीचेषु नीचता ॥२८१।। विश्वासघात यै नो द्वितीयं तद्विघात । तस्य नारकसंदायि व्यपायफलभाजिनः ॥२८२॥ चिच्चमत्कार चातुर्यं वृत्तांतंशृणु मगिरा । कोशांबी नगरी भाति मारोद्दीपितविभ्रमा ॥२८३।। सोमशर्माभिधस्तत्र वाडवस्तस्य भामिनी। कपिला च कपित्थाभस्तनौ मारार्त्तविग्रहा ॥२८४॥ अटन्वनं कदाचित्सोऽपश्यन्नकुलबालकं । समादाय गृहं चागात्प्रफुल्लवदनेक्षणः ॥२८५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org