________________
२३४
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
करयोगात्कपालं च पतितं दुग्धयोगतः । अग्निः शशाम वेगेन भो श्रेणिक नराधिप ॥ ४४ ।। तदा कौलेयको वीक्ष्य मत्वाकु द्धं स्वमंत्रकम् । चक्रे पलायनं भीतः पश्यन् पश्यन्नवाङ मुखं ।। ४५ ।। उदयाय तदा भानुः कथयन्निव सज्जनान् । मुनेर्महोपसर्ग च कुणपायतपातिनः ॥ ४६ ।। ननाश तामसं दूरादुच्चनीचसमानकृत् । स्तव्यग्राभेद्यमत्यंतं मिथ्यात्वं जिन भास्करात् ॥ ४७ ।। यस्योदयप्रशावेण पद्मानि विचकासिरे । जिनोदयेन भव्यानां मनांसीव स्वभावतः ॥ ४८ ॥ रथांगयुगलान्याश नंदयंति मुहुर्मुहुः । वियुक्तिरात्रितो लुब्धं संपर्कानि हरिं मुदा ।। ४६ ॥ कामिनां युगलान्याशु निदयंति वियोगिनां । दृढालिंगनतो यस्योदयं संभिन्नतामसं ॥ ५० ॥ साधुमार्गसमादर्शी विभिन्नखलतामसः । पदार्थसार्थसंस्पर्शी साधुरेब दिवाकरः ।। ५१ ।। यस्योदये हिमांशुश्च शुष्क पत्रायते तरां । लून सर्वांगसत्कांतिस्तत्रान्येषां च का कथा ।। ५२ ॥ भानुदर्शित सन्मार्गे चरंति जनताः शुभाः । जिनोपदिष्टसन्मार्गे भव्या इव हितैषिणः ॥ ५३॥ पतितं मां तदा भूप विदग्धार्द्धसुमस्तकम् । पुष्पलावी समावीक्ष्य विस्मितोऽभून्निजे हृदि ॥ ५४॥ आगत्य नगरे तूर्णमचीकथदुपासकान् । जिनदत्तादिसंमुख्यान् जिनधर्मप्रवेदकान् ॥ ५५॥
राजन् ! मैं तो इस प्रकार अनित्यत्व भावना भा रहा था। मुझे अपने तन-बदन का भी होश न था। अचानक ही जब अग्नि जोर से बढ़ने लगी तो मेरे मस्तक की नसें भी सिकुड़ने लगीं। मेरे मस्तक पर रहा कपाल बेहद रीति से हिलने लगा और भली-भाँति कोलिक द्वारा डाँटे जाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org