________________
२३२
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
चौर मूर्द्धद्वयं नीत्वा योजयन्मुनिमस्तके । रंधनाय चकाराशु चुल्लीं शीर्षसमुद्भवां ॥ २८ ।। जज्वाल ज्वलनं वेगानधयन्वरपायसं । एधांसि मुंचयन् सिद्धो विद्यासिद्धयर्थमंजसा ॥ २६ ॥ यथायथाग्निरेधेत ज्वलते च तथा तथा । मुनेः शीर्ष व्यथा तीव्रा जायते मूनि सन्मुनेः ॥ ३० ॥ तदा सस्मार योगींद्रश्चिद्रूपं शुद्धमुत्तमं । नोद्रव्यभावदुःकर्म विमुक्तं मुक्तिसंगतं ॥ ३१॥ मा कृथाऽशर्म रे जीव भक्तपूर्वं च नारकं । अनेकशो मया दुःखं तदग्नेरपि का कथा ॥ ३२॥ नरये क्षुत्प्रवर्तेत सर्वसस्योपजीविनी। लभ्येत शिकणमात्रं न नारकै नष्टशर्मकैः ॥ ३३ ॥ तप्तैलकटाहेषु निक्षिप्तास्तत्र देहिनः । भस्मीभवंति सर्वांगे सहमानाश्च वेदनां ।। ३४ ।। करपत्रादियोगेन द्विधा भवंति नारकाः । खंडशः खंडशो भूता एकीयंते च सूतवत् ॥ ३५ ॥ भूमिस्पर्शननोऽसातं सहस्रवृश्चिकस्पृशः । अधिकं देहिनां यत्र जायते देहदाहकं ॥ ३६॥ भू मृदो दैवयोगेना यांति लोकेऽत्रमध्यमे । तद्गंधान्त्ररणं यांति नराः क्रोशादिसंस्थिताः ॥ ३७ ॥ अनेकशोमयादुःखं तद्भुक्तं पूर्वमेव च । पराधीनतयाद्याहं क्षमिष्यामि समागतं ॥ ३८॥ एकाक्षविषये द्वयादिकरणे केवलं मया। अशर्माऽभोजि . चिद्रूपमजानतातचेतसा ।। ३६ ॥ अनंतानंत संसारो नित्येतरनिगोदके । स्थितः पूर्वं सुदिष्टाच्च लब्धोऽयं मानुषो भवः ॥ ४० ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International