________________
२३०
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
योग्य वर्षा हुआ करती है, उसके मनोहर बागों में सदा कोकिला बोलती रहती है। वहाँ की स्त्रियों से हथिनी भी मंद गगन की शिक्षा लेती हैं। और स्वभाव से वे स्त्रियाँ लज्जावती एवं पतिभक्ता होती है॥१-१२॥
तत्रास्ति पत्तनं रम्यं देशनाम्ना मनोहरम् । तुंगसौधाग्रशृंगेण दारयच्चंद्रमंडलं ॥ १३ ॥ भिन्ने तमसि बालानां वक्त्रचंद्ररनर्थतां। सूर्याचंद्रप्रदीपाद्याः समीयुः क्षणदाह्नि च ॥ १४ ॥ यत्र गोपुरकामिन्याश्चंद्रश्चूडामणीयते । क्षणं स्थितः क्षपायां च तारामृक्तावलीश्रितः ।। १५ ॥ तच्छास्ता मणिमाली वै बभूव भववेदकः । मूर्तीभूत इवोत्तुंगः क्षात्रो धर्मः सनातनः ॥ १६ ॥ गुणमालाभिधा राज्ञी ममाभूत्प्राणवल्लभा । मणिशेखरनामाभूत्तनुजो
नयसंगतः ॥ १७ ॥ कुर्वत्राज्यं जनांस्तोषं दधद्धर्म समर्जयन् । कारणं शर्म सं जन् जातं कालं न वेम्यहं ॥ १८ ॥ कौतुकेनैकदा राश्या कचा मम मनोहराः । तया विरुलयंत्या च पलितं वीक्ष्यं तत्र च ॥ १६ ॥ इत्युक्तं यमदूतोऽय महोआरात्मसमागतः । व्याप्तं येन जगत्सर्वं सेंद्रचक्रिहरादिकम् ॥ २० ॥ राज्ञाऽभाणि क्व कांते स आटितो भयदायकः । इत्युक्ते सा सितं केशं दर्शयामास भूपतेः ॥ २१ ॥ सवधिस्थं यमं मत्वा विरज्याखिलशर्मतः । सतां त्याज्यं महाराज्यं सियुज्य मणिशेखरे ॥ २२ ॥ ज्ञानसागरमासाद्य गुरुं बहुनृपोद्भवैः । अदीक्षितसुसिद्धांत पठनोद्यतमानसः ।। २३ ॥ सकलागमवेत्ताहं भूत्वा तपसि संस्थितः । विजहार चिरं भूमि मेकाकी सिंहवत्सदा ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org