________________
एकादशमः सर्गः
तत उत्थाय भूमिशो नत्वा तं मणिमालिनं । प्रप्रच्छ गमने हेतुं स्वगृहाबहिरुन्नतः ॥ १ ॥ प्रोवाच मणिमाली तं वक्ष्ये स्वोदंतमुत्तमं । विस्तीर्ण वृषसद्धेतुं शृणुत्वं शुभचेतसा ॥ २ ॥ अत्रैव विषयः ख्यातो मण्यादिवतनाम भाक् । मणिभिर्नररत्नश्च देशेषु च मणीयते ॥ ३ ॥ दंतच्छदेष्वधरतायाचना पाणिपीड़ने । क्विप्प्रत्यये विनाशश्च बंधनं शुकपक्षिणि ॥ ४ ॥ मदो दंतिसमूहेषु मारकत्वं यमाह्वये । साध्वसं कामिनां यत्र कामिन्या भूत सद्रुषः ॥ ५ ॥ तस्करो भोगगंधानां हारित्वान्मारुतः पुनः । पतनं वृक्षपर्णेषु चापलत्वं च मारुते ॥ ६ ॥ नितंबे जड़ता यत्र कट्यां च कृशता शुभा । कामिन्याः प्रस्तरे यत्र मूकत्त्वं वर्त्तते खलु ॥ ७ ॥ निग्रहः करणग्रामे योगिनां योगचेतसां । कालुष्यः सरसि प्रोक्तं गजांदोलितवारिणि ।। ८ ॥ विकोशत्वं च पद्मष स्पर्धा दानादिसंभवा । व्यसनं सन्मते यत्र नान्यत्र भुविवर्त्तते ॥ ६ ॥ यति योगप्रभावेण विपिनानि घनानि च । सर्वकालफलाढ्यानि यत्र संति शुभावहे ॥ १० ॥ वसंत इव सा ब्रूते सदा च पिककामिनी। पराजिता पुरंध्रीभिः काशयंती निजां कलां ॥ ११ ॥ वने दंतिपुरंध्यश्च शिष्यंति गमनक्रियां ।
यत्र नार्यः सलज्जाश्च नि: काश्य पर स्थिताः ॥ १२॥ मुनिवर जिनपाल द्वारा वचनगुप्ति-कथा के समाप्त हो जाने पर राजा-रानी ने उन्हें
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org