________________
श्रेणिक पुराणम्
दृश्यन्ते मुनयो यत्र वने पर्वतमस्तके। ग्रामे देशेपुरे द्रोणे मण्टपे कर्वटेतटे ।। ८० ॥ गणेश गणणातीताः संघेनमहत्तासमम् । धर्मोपदेश संरक्ता दृश्यन्ते यत्र निर्मलाः ।। ८१॥ क्वचित्केवलपूजाया आगच्छन्ति सुरोत्तमाः । नाना विमानसंरूढ़ादृढ़ दिव्यांगणासमम् ।। ८२॥ रमन्ते रम्य रामेषु यत्र देवाः सयोषितः । मुक्त्वा स्वर्गमहींरम्यां सुगम्यां पुण्य शालिनाम् ॥ २३ ॥ गोपालिका महागीतमन्त्रं सयंत्रिता मृगाः । न यान्ति यत्र सन्दत्तचित्ता भय वर्जिताः ॥ ८४ ॥ पद्माकरेषु चायान्ति गजा यत्र पिपासया। दृष्टवा तत्रत्य नारीणांरूपं मुंचन्ति जीवनम् ॥८५ ॥ कि वर्ण्यते च योदेशो नानातीर्थ समाश्रितः । देवविद्या धरैः सेव्यो मुनिवृन्दविराजितः ॥ ८६ ॥ राजगृहं पुरंतत्र राजगृह विराजितम् । समस्ति सर्व शोभाढयं धनाढय जनसंस्कृतम् ॥ ८७॥ न नराज्ञानसंत्यक्ता नाशीलाः कुलयोषितः । निर्धना न जना यत्र वर्तन्ते परमद्धिकाः ।। ८ ।। लोकपाल समालोकाः स्त्रियो दिव्यांगनासमाः । कल्पवृक्ष समाकारा वृक्षायत्र पदे पदे ॥ ८६ ॥ स्वविमानोपमा यत्र गृहास्वर्णश्च वद्धकाः । पापशासन सादृक्षा नरेन्द्रा बुध संस्कृताः ॥ १० ॥ उत्तुंग शालतो याति यत्स्वर्ग जेतुमिच्छया। अधः कृत्यं स्वबीर्येण भुवनं भूरिशो भया ॥६१ ॥ यत्रत्याः परं धाम विशान्तिव्रत भूषिताः । उत्पाद्यके वलं बोधं क्षयंनीत्वाद्यः संचयम् ॥ १२ ॥ केचित्सद्वतंसंसिद्धया ब्रजन्ति व्रत योगतः । सर्वार्थसिद्धि संस्थानं प्राग्दृष्टमिव योगिनः ॥६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org