________________
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
द्वितीय सुषमः ख्यात: क्रोशद्वय शरीरिभाक । हरि वर्ष समोज्ञेयः स्थित्वाहारादिभिःशुभः ॥ ६६ ॥ द्वि कोटि कोटि संस्थायी क्रोशोत्सेध शरीरभृत् । जघन्यभोग भूद्दक्षस्तृतीयः काल इष्यते ।। ६७ ॥ विदेह कालसादृश्य चतुर्थः समयो मतः । तीर्थकृद्वक्ति रामादि जननोत्सवतांगतः ॥ ६८ ॥ पञ्चम: पुण्य पापाढयस्तुच्छ धर्म सुखाकरः । समयः प्रोच्यतेसद्भिर्डीनायुर्देह धर्मकः ।। ६६ ॥ धर्म होनोति पापात्मा षष्टो दुष्ट जनाश्रितः । कालोऽल्पायुर्जनः कीर्णो ज्ञातव्यः कालकोविदः ।। ७० ॥ इत्थं कालः प्रवर्तेत यत्रार्य पुण्यधामनि । मुक्तिमार्ग पथोद्दीपे शुभकर्म परायणे ।। ७१ ॥ विशेष देश संकीर्ण पुरपत्तन भूषितम् । यतिवृन्द समाश्लिष्टं दिद्युते यच्छुभावहम् ॥ ७२ ॥ तन्मध्ये मगधोदेशो नाभिवद्भाति भूतले । जनता वृन्द संसेव्यो भूरि भव्य विशेसितः ॥ ७३॥ ग्रामाः • कुक्कुटसम्पात्या धनधान्य गुणालयः । रेजुर्यत्र जनाकीर्णा विशीर्णास्सम्पदः शुभाः ॥ ७४ ॥ सुवृक्षा यत्रसम्भेजुः कल्पवृक्षश्रियंपराः । यच्छन्तः फलसंराशी जनानां फल कांक्षिणाम् ॥ ७५॥ शालि क्षेत्राणि राजन्ते सुपक्व फलितानि च । तद्वर्ण शुकसमिश्रं फलानि यत्र सुन्दरे ॥७६ ॥ पक्व शालिवने यत्र पतन्तः शुक पक्षिणः । लक्ष्यन्ते तत्रजैर्लोकः कल्पवृक्ष फलानिवा ॥ ७७ ।। सरांसि यत्र शोभन्ते स्वच्छनीर भृतानि च । नीलद्विपैः श्रितानीवमेघवृन्दैश्च सेवितुम् ॥ ७८ ।। कमलाकर संकीर्णाः सुमनोज सुमण्डितः । सिन्धुदापहाः पद्माकराः कृष्णाइवावभुः ॥ ७९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org