SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् २२३ स तं व्याधुटितं मत्वा प्रजापालस्तदंतिकं । विशिष्टान्प्रेषयामास सुभटान्मंत्रकोविदान् ॥१६९।। प्रणतैस्तैः सविज्ञप्त इति राजंस्त्वया कथं । व्याघुट्य गम्यते युद्धादृते चंडप्रशासन ॥१७०॥ तदा तान् प्रतिसोऽवादीन्मंत्रिणोमंत्रकोविदाः । जैनेन युयुधेनाऽहं प्राणतुल्येन धर्मिणा ॥१७१।। ये जैनेन समंजन्यं कुर्वति वृषवर्जिताः । त एव निधनं यांति सुधार्मिकपराङ मुखाः ॥१७२॥ इत्याकर्ण्य नरा: सर्वे तं व्याधुट्य न्यवेदयन् । चंडप्रद्योतनं जैनं मत्वा संतोषमाप्तवान् ॥१७३॥ प्रजापालस्ततः प्रीत्या चंडप्रद्योतनाय च। सुर्मिणे ददौभूत्या मृगाक्षीं तांघनस्तनीं ॥१७४॥ रत्नकोशतुरंगादि दंतिनः प्रीतिवृद्धये । ददतुस्तौ सुवस्त्रादि कृत्वातोषं परस्परं ।।१७५।। ततः सपरया भूत्या कौशांब्यामगमत्तया। रेमाते दंपती तुष्टौ श्लेषमीलितलोचनौ ॥१७६॥ चंडप्रद्योतनो भूप एकदा वनितांतिके । अवदद्वसुकांते भो बलवान्बलमंडितः ॥१७७॥ प्रताप्याहं महावीरः साधिताखिलभूपतिः । पितरं यदि नो वेम्यनर्थ कर्तास्मि जैनकं ॥१७॥ इत्याकर्ण्य तया वादि नाथेत्थं न कदाचन । दत्तं यतोऽभयं दानं जिनपालेन योगिना ॥१७॥ तदा रराण भूपालः कांते कमललोचने । न तोषो न च विद्वेषो योगिनां कुत्र विद्यते ॥१८०॥ एवं चेद्वल्लभे यावस्तङ्केहि मृगलोचने । इत्युदीर्य ततस्तौ च चेलतुर्वंदना कृते ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy