________________
१८८
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
किल्विषं तीव्रमादायाजगाम निजपत्तनं । सहसन्विविधैर्वाक्य बौद्धाग्रे तन्न्यवेदयत् ॥१६६।। जहर्षुः खलरूपास्ते श्रुत्वा मुनि निबंधनं । ज्वलनात्कुक्कुरा वाहो मातंगाः पशुपातनात् ।।१६७॥ चतुर्थे घस्र एवासाऽवाप्यराज्ञी गृहं निशि । रममाणस्तदा राज्या च कथद्वचनं नृपः ॥१६८।। सर्पस्य कंठनिक्षेपं गुरोः श्रुत्वा रुरोद सा । अहो विरूपकं जातं त्वयात्मा दुर्गतौ कृतः ॥१६॥ धिग्धिग्जन्मममात्रैव स्थिति धिग्रराजमंदिरे । वज्र न पतितं किं मे मूद्धिन जन्मनि दुःसहं ॥१७०॥ यौवने मरणं कि वाऽभूद्यत्पाणिपीड़नम् । अनेन भविता नैवमत्त इत्थं वनो भवेत् ॥१७१॥ किं करोमि क्व गच्छामि क्व तिष्ठामि कथंचन । अस्त्वत् पयो ममात्रैव स्थित्यालं पशुवत्सदा ॥१७२॥ वरं वने स्थितिर्मेऽद्य रणेवासोऽद्रिमस्तके । वरं च मरणं ज्ञेयं धर्महीने गृहे न च ॥१७३॥ इत्यादिविविधालापमुखरां रतिदायिनी। तां वीक्ष्याऽसौऽभणद्रांज्ञि वृथा शोकं च माकृथाः ॥१७४॥ त्यक्त्वा नागं क्षणार्द्धन भविष्यति गतः स च । अशक्तो गंतुमुत्क्षिप्य नागं किं किं च लप्यते ॥१७॥ तदा तया बचोऽभाणि राजन्नित्थं कदाचन । गुरवो भवितारो मे यदि मागधमंडन ॥१७६॥ चलंति मंदरा दैवाद्वरा वा स्थानतः पुनः । समुद्रालंघयत्याज्ञां यतयो न व्रतं स्थिताः ॥१७७॥ अचलाः क्षमयाऽभवन्गंभीरा नीरनाथवत् । असंगा वायुवद्ज्ञेया अग्निवत् कर्मदाहकाः ॥१७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org