________________
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
रानी द्वारा किये हए पराभव से लज्जित एवं अधोमुख हो वे शीघ्र ही महाराज की सभा में गये और जो-जो रानी ने उनका अपमान किया था, सारा महाराज को जा सुनाया। एवं राजमंदिर में अति अनादर को पा, वे चुपचाप अपने-अपने स्थानों को चले गये। रानी के सामने उनके ज्ञान की कुछ भी कद्र नहीं हुई ॥७६-८७।।
अन्यदा भूरिभूमीश सेवितांह्रिः नराधिपः ।। प्रशंसां स्वगुरोश्चक्रे मृगाक्ष्यग्रे स्वबुद्धितः ।। ८८ ॥ पद्मनेत्रे शुभांगे च ज्ञानिनो विश्ववेदकाः । अस्मदीयाः परां काष्टां प्राप्ताश्च गुरवः पराः ।। ८६ ।। कदा विदंति संप्रश्ने राज्ञि ध्यानपरायणाः । आसते ते यदा सर्वे तदात्मानं शिवालयं ॥ १० ॥ नयंति परमं तत्त्वं गमयंति स्फुरत्प्रभाः । तदा सा महिषी प्राह तथास्थान् दर्शयस्वमे ।। ६१ ।। अंगीकरोमि तद्धर्मं मत्वा तत्त्वं च सौगतं । प्रेक्षावंतो न गृह्णत्यपरीक्ष्य सुकृतं यतः ॥ ६२ ॥ पक्षपाताच्च गृह्णति ये वृषं युक्तिवर्जितम् । परीक्षाक्षममित्याहुस्तान् शठान्शठसंगतान् ।। ६३ ॥ अतः परीक्ष्य नाथाद्याकर्ण्य तत्वं च सौगतम् । लास्यामि ते वृषं स्वामिन् दृष्ट्वा
___ तान् घ्यानसंस्थितान् ॥ १४ ॥ ततस्तदने भूपालो निरूप्य वाक्प्रबंधनं । कार्यं तथा भवद्भिश्च पुराबहिश्च मंडपे ॥६५॥ ततस्तन्मंडपे सर्वे विधाय वातधारणम् । नेत्रोन्मीलनसंत्यक्ता निःश्वासा अक्रियाः पुनः ॥ ६६ ॥ उदीर्णसदृशास्तस्थुः करव्यापारदूरगाः । वक्त्रभ्र भंगनिर्मुक्ता व्याहारादिपराङ मुखाः ॥ १७ ॥ तथास्थान्सा परिज्ञाया जगाम शिविकां पराम् । आरूह्य तान्विलोक्याशु पप्रच्छ परमं वृषम् ।। ६८ ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International