________________
१७३
Jain Education International
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
सन्मानितास्तया सर्वे सिंहासन विधानतः । तत्प्रशंसा करैर्वाक्यै मनोन्मानादिदानतः ॥ ६४ ॥ सा तेषां पादधावादिकारयित्वा निजे निजे । पदे तान् स्थापयामास भुक्त्यै भोजनलोलुपान् ।। ६५ ।। नानाविधं च पक्वान्नं नानामोदकमंडकम् । पायसं लापनश्रीं च प्रचुराज्यं सपूपकम् ॥ ६६ ॥ तेभ्यो व्यंजनराशि च राजभोग्यं समोदनम् । मुद्गादिकं मुमोचाशु ते भुंजंत्यतिलोलुपाः ॥ ६७ ॥ तत्परीक्षा कृते दक्षा तेषां वामांह्रिजां पराम् । उपानहमुपादायैकैकां खंड़ीचकार च ॥ ६८ ॥ तत्सूक्ष्मां शान्समादाय तत्राम्ले जतुकाकुले । निक्षिप्य मुद्गवेलायां तेभ्यस्तद्वयंजनं ददौ ॥ ६६ ॥ सुस्वादतो विशेषेण बुभुजस्ते च व्यंजनं । ततस्तत्रादिपर्यंतं जेमुस्ते साम्ल व्यंजनम् ॥ ७० ॥
निजं
संचचम्य तदा सर्वे गृहीत्वा आवादिषुः प्रमादेनेति गृहाण राज्ञि त्वद्वाक्यतः सर्वैर्भुक्तं तद्धाम्नि वेगतः । उररीकुरु सद्धर्मं बौद्ध सत्सात सिद्धये ॥ ७२॥ इत्युक्ते सा वचोऽवादीद्गंतव्यं भो निजे मते । इदानीं भगवद्भिश्चा गमिष्यामि भवद्गृहम् ॥ ७३ ॥ करिष्यामि भवद्वाक्यं तत्र नात्रविचारणा । इति प्रोक्ते गृहं गंतुकामाः प्राणहितां निजां ॥ ७४ ॥ वामां न लोकयंति स्म सर्वे व्याकुलमानसाः । पृष्टेति सा क्व चैकैका राज्ञि प्राणहिता गता ।। ७५ ।। हास्यं नो गुरुभिः साकं विधेयं नृपवल्लभे । पादत्राणमतो देहि हास्यं योग्ये शुभं खलु ॥ ७६ ॥
For Private & Personal Use Only
पूगपत्रकं ।
वृषं ॥ ७१ ॥
www.jainelibrary.org