________________
श्रेणिक पुराणम्
त्याज्यते सौगतो धर्मः किं कर्त्तव्यं नपाधिप ! अनया कार्यते श्रेयो जैनं वंचनविद्यया ॥४७॥ नृपोऽभाणीन्महाप्रीत्या बोधनीया बुधोत्तमाः । भवद्भिरेषिका तूर्णं नान्यथा धर्मसंस्थितिः ॥ ४८ ॥ भो ! भूभृद्बोधयिष्यामस्तां शास्त्रादिसुविद्यया । पिटकत्रयवेत्तारो वयं विद्यानुगामिनः ।। ४६ ॥ अभ्येत्य तां ततो बौद्धा मदोद्दीप्ता अवादिषुः । अस्माकीनो वृषः कार्यस्त्वया राज्ञि हिताप्तये ॥ ५० ॥ गुरवो यत्र वर्तते भावकाश्चेलवर्जिताः । पशुवल्लंघनारूढा ज्ञानविज्ञान वंचिताः ॥ ५१ ॥ नग्नाः क्षपणका येऽत्र म्रियतेऽमुत्रजन्मनि । तादृशा एव जायते नग्ना नात्र विचारणा ॥ ५२ ।। क्षुत् तृषाकुलिता येऽपि क्षुत्तृषाकुलितास्तके । भवंत्यमुत्र भो राज्ञि मान्यते ते कथं त्वया ॥ ५३ ।। वपंति यादशं बीजं जनाः क्षेत्रे च तादशं । तद्वल्लभते भो राशि ! नान्यल्लभ्यं कदाचन ॥ ५४ ।। ये भुजंतीह सातं च स्त्रीजं भोजनसंभवम् । वस्त्रादिजं सदासारं भुजंति परजन्मनि ॥ ५५ ॥ अतो बौद्धान्गुरून्राज्ञि मानयस्व विदावृतान् । पक्षं क्षापणकं मुक्त्वा परलोकाऽसुखावहम् ॥ ५६ ॥ इत्युदीर्य स्थिते बौद्धेऽवादीत्सा मारमंजरी। भवद्भिरित्थमावेदि कथं परभवोद्भवम् ॥ ५७ ॥ इत्युक्ते राज्ञि ते प्राहुर्वयं ज्ञानपरायणाः । यथावद्विश्वमाविद्मः का वार्ताऽत्रभवादिजा ॥ ५८ ॥ राश्याऽभाणि यदीत्थं वै भवत्सुज्ञानमुत्तमम् । भोजयित्वाऽखिलान् बौद्धान् श्वो गृहीष्यामित्वदृषं ।। ५६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org