________________
श्रेणिक पुराणम्
१२१
तदाऽभयो वचोऽवादीद्राजीया: पुरुषोत्तमाः । फलेच्छा भवतां चित्ते समस्ति शुभशालिनां ॥१५१।। मयोष्णानि प्रदीयं तेशीतलानि फलानि वा । भवद्भयः कथनीयं मे यादृशानि द्रुतं नराः ॥१५२॥ रोचंते ते वचः श्रुत्वा चितयन्निति मानसे । उष्णानि शीतलान्येव फलानि प्रभवंति किं ॥१५३॥ अनुदृष्टानि शीतानि फलानि प्रचुराणि च । न श्रुतानि न दृष्टानि कोष्णान्यपि जगत्त्रये ॥१५४।। एकस्मिन्नथ वृक्षे च शीतान्युष्णानि कि ननु । भवंति विफलं वाक्यमेषां मन्यामहे वयं ॥१५॥ वितयेति चिरं चित्ते राजीयाः पुरुषा जगुः । उष्णानि तानि देयानि भो अस्मभ्यं त्वयाधुना ॥१५६॥ ततः पक्वानि संगृह्य कानिचित्तानि सत्करे । ईषद्विमर्च संजल्पन्निति निक्षिप्तवान् स च ।।१५७।। भो नरा नितरां दूरे स्थेयं स्थेयं प्रयत्नतः । वालुकायां च वृक्षाधः पतितानि फलानि वै ।।१५८।। ततस्ते बालुका मध्यात्तान्यादाय फलानि च । बालुकानाश सिद्धयर्थं फूत्कुर्वति नरोत्तमाः ॥१५६।। फूत्कुर्वतस्तदालोक्य नरान् स प्राह कौतुकी। फूत्कुर्वति नरा दूरं सोष्णानि फल चान्यथा ॥१६०॥ उष्णत्वाद्भवतां स्मस्र दाहो नूनं भविष्यति । आकर्ण्य हपयामासु रिति ते वचनं जगुः ॥१६॥ शीतानि देहि रम्याणि फलानि सरसानि च ।
ततो दत्तानि तेनैव तेभ्यो लज्जित मानसाः ॥१६२॥ राजसेवकों की फलों के लिए प्रार्थना सुन अभयकुमार ने सोचा। यदि इनको यों ही फल दे दिये जायेंगे तो कुछ मज़ा न आवेगा । इनको छकाकर फल देना ठीक होगा। इसलिए प्रार्थना के बदले में उन्होंने यही जवाब दिया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org