________________
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
वंदिवृदमुखोद्गीत यशाः स्फीत शुभायुतः । वाद्यवादकवृदेन विकासितसमागमः ॥ ८८ ॥ तदानकादि सध्वाना कारितास्तत्पुरांगनाः । चेलुर्वीच्य इवाब्धेश्च विलोकनकृतेमुदा ॥८६॥ भोजनस्थं पति मुक्त्वा काचिद्धावति वीचिवत् । मंथनोज्झित कर्मान्या तद्गुणा हतमानसा ॥६० ॥ काचिद्दधाति तिलकं भाले सज्जलकज्जलैः । तिलकद्रव्यमाशेषं नयने तूणिता सतो ॥११॥ चडामणि च कंठेऽधान्मद्धि न वेयकं तथा । काचिद्हारं कटिदेशे मेखलां कंठमंडले ॥ १२ ॥ सखीभिः प्रेरिता काचिद्विदधाति विपर्ययम् । कंचुकं कोकिलध्वाना काचित्पतति सस्पृहा ।। ६३ ॥ रुदंतं स्वसुतं हित्वा गृह्वाति परजं सुतम् । काचिच्च मुखतांबूलं निक्षिपंती हि गच्छति ॥ १४ ॥ स्तनाच्छादन वस्त्रेण जघनं संदधाति च । अवस्त्रप्रकटोद्भूत स्तनद्वंद्वा सुसुंदरी ॥६५॥ काचिद्रूपं समावीक्ष्य स्वागत्य वरमंदिरे । स्थूलत्वेन पदं गंतुमशक्ता वृद्धतो जगौ ॥ ६६ ॥ अनीदृशं महारूपं भूपतेरस्ति भो सखि । अनीदृशा विभूतिश्च वृद्धा वादीत्तदाशुभं ॥ ६७ ।। दर्शयस्व नृपं मेऽद्य गृहीत्वा याहि मां सखि । अन्यथा निष्फलं जन्म मामकीनं जगत्त्रये ।। ६८ ॥ श्रुत्वेति तां गृहीत्वा सा वृद्धा हस्ते विनिर्गता । स्थूलत्वतः पदं यातुमक्षमा पतिता भुवि । ६६ ।। सापि वृद्धां विमुच्याशु पुनरीक्षणहेतवे । निर्जगाम स्वबाहुभ्यां पातयंती पुरःस्थितां ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org